पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्यत्संभवि यत्ततश्च करयोर्मोक्षाभिलाषादत-- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ७७ ।। केशाः काशनिमाः सिराविषमितं गात्रं गतिर्विकल्वा चक्षुःश्रोत्रमपाटवं युक्तयो नेच्छन्ति पश्चामिव । अस्त्वेवं विषयस्पृहा तु न गलत्यद्धेति तद्धानयै तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ७८ ।। बाधिर्येऽपि यथा नरः पटुनटीगानानि शुश्रूपते सत्यान्थ्येऽपि दिदृक्षते मृगदृशां तारुण्यलक्ष्मीमपि । शान्तावर्पितधीरहं क्षपयितुं तां तामसीं वासनां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ७९ ।। दारापत्यसनाभिगोधनगृहग्रामोपवन्यापगा- कूपाराचलमेषचन्द्रदिनकृत्तारादि दृश्यं जगत् । न द्रष्टुं क्षणमुज्झितां तनुमिति ज्ञात्वा भयान्मृत्युत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८० | आरुढं चतुरन्तयानमवनीपालार्पितं किं ततो भृत्याः सन्ति च किं ततो बहु तथा लब्धं धनं किं ततः मर्तव्ये सति मानवस्य तदहं मृत्योर्भयान्निभरा- त्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८१ ।। अस्त्यन्नं शुभमस्ति शीतजलमप्यस्ति प्रदाता जनः शक्या च क्षुदुदन्यया सह निराकर्तु शरीरे स्थिते । त्यक्तेऽप्यत्र तयोः शमाय सुकृते घीः स्यान्ममेतीच्छया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८२ ॥ तैलाभ्यङ्गशुभान्नभोजनदुकूलाच्छादनामोदव- द्गन्धालेपनपुष्पधारणतरुण्यालिङ्गनाद्यैः सुखैः ।