पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विश्वगर्भस्तवः । संयोज्यास्थिचयं जुगुप्सितमिमं बद्ध्वा सिराभिर्मियो लिप्तवासृक्पिशितैस्त्वचा पिदधता धात्रा शरीरं कृतम् । एतस्मिन्नतिकुत्सिते चिरमहंकारं स्थितं प्रोज्झितुं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ७३ ॥ अन्तःस्थं वपुषो यदस्ति पिहितं तन्न त्वचा चेन्मुहु- र्दण्डेन श्वशृगालकङ्कबलिभुक्सङ्घं नरो वारयेत् । इत्याधाय मतिं वपुप्यहमिति ज्ञानं लुनीहीत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानवे ॥ ७४ ॥ बाल्यं तद्गतमेव यत्र मनसो मौग्ध्यं तथा यापितं तारुण्यं च वृथा न यत्र विषया भुक्ता न चीर्ण तपः । प्राप्तं वार्धकमक्रियाहमधुना कुर्यां किमन्यत्पुन- स्तमै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ७५ ॥ मौलिस्त्वत्प्रणतिं करोतु शृणुतां कर्णो त्वदीयां कथां वाणी स्तोतु भवद्गुणान्करयुगं स्वामर्चतु प्रत्यहम् । पादौ स्तां च भवत्प्रदक्षिणगती कुर्वन्निति प्रार्थनां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ६ ।। पापान्निन्द्यधनप्रतिग्रहकृतादन्यस्वचौर्योत्थिता- द्विप्राद्याहतिसंभवात्परवधूगात्राभिमर्शोद्गतात् । १. "लिप्सामुक्पिमितेः' इति पुस्तकान्लरे. “लिप्या होत्यर्थः' चित्र पुस्तके लिखितम्. पुस्तकरये लिप्सास' इति वर्तते, अर्थश्र पूर्ववत, वृताने तु "लिवामुक्पिशितैः' इति. २. तथा च भागवते वाणी गुलानुरूपने अवणं कथायां हस्तौ च कर्मसु मनस्तव पादयोनः । स्मृत्यो शिरस- गत्प्रणामे दृष्टिः सदा दर्शनेऽस्तु भवसनूनाम् ॥' इति.