पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । दातारं कृपणोऽयमित्यकुटिलं जिह्मोऽयमित्युन्नतं नीचोऽसाविति सर्वशास्त्रकुशलं प्रज्ञाजडोऽसाविति । इत्थं यो मुखरीकरोति मनुजास्तं मत्सरं प्रोज्झितुं तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानय ॥ ४६॥ एतत्कृत्यमिदं त्वकृत्यमिति मे तावान्विवेकः कुतः कामक्रोधविमोहलोभमदमात्सर्योपरुद्धे हृदि । तेनाधानि समाचरन्नपि गतिं प्राप्तुं समीचीमहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ४७ ॥ दिक्पालेषु दिवस्पतिप्रभृतिषु स्वाकारभेदेषु यो भूत्वा दण्डधरो ददाति जगतां स्वस्वानुरूपं फलम् । पापं नाशय मेऽथवा दिश दिवं पापात्मनोऽपीत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४८ ।। उद्यानोपवनाटवीह्रदसरोवापीतडागापगा- कूपाराचलनीवृदम्बुदतडिन्नक्षत्रताराग्रहैः । आकीर्णं कृमिकीटपक्षिपशुभिः पश्यन्मृषेदं जग- चस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४५ ॥ मातुर्गर्भजुषस्ततो निषततो जातस्य सर्वेष्वपि व्यापारेष्वपटोर्वयस्युपचिते तत्तत्प्रियाकाङ्क्षिणः । रुग्णस्यान्तगतस्य या व्यसनिता मर्त्यस्य तामुज्झितुं तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ५० ॥ विण्मूत्रामिषरक्तभाजि जठरे मातुर्यदालोचितं जातो दैवतपूजया जनिमृतिक्लेशं विजह्यामिति । ३. रणस्य.व्यथितस्येल्यर्थः