पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विश्वगर्भस्तवः। कामेन भ्रमति क्रुधा वितपते लोभेन संक्षिप्यते मोहेनान्ध्यमुपैति माद्यति मदेनेर्षत्यकाण्डे परान् । मात्सर्येण च मामकं हृदयमित्यस्यैव संशुद्धये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४० ॥ धम्मिल्लः शिखिबर्हभाररुचिरः पूर्णेन्दुकान्तं मुखं वृत्तोत्तुङ्गघनौ स्तनौ कृशतरो मध्यो नितम्बः पृथुः । इत्यासक्तमिदं बधूषु हृदयं मा भूदिति प्रार्थयं- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥४१॥ के भृत्याः क इवात्मजाः प्रणयिनी का नाम के भ्रातरः कौ मातापितरौ च के च गुरवः क्रुद्धस्य पुंसः पुरः । तत्क्रोधो न भवेद्यथा मम तथा कार्या दयेति ब्रुवं- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ४२ ।। अग्राह्यं वसु गृह्यते प्रभुरसंसेव्यश्च संसेव्यते प्राणाश्चेदपि यान्ति यान्त्वतिथये नान्नं पुनर्दीयते । कुक्षिः खोऽपि न पुष्यते यदुदयाल्लोभं तमेवोज्झितुं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ४३ ॥ भार्येत्यामिषभस्त्रिकां सुत इति प्राक्स्वाधमर्णागतं पिण्डं मांसमय स्पूवर्वसुकृतध्वंसं तथार्था इति । विद्याद्येन त चात्मतत्वमथ तं मोहं जिहासन्नहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४४ ॥ आचारे च विद्यया च विभवेश्चान्नप्रदानेन च स्फीतैबन्धुजनैश्च किंच यशसा को मेऽस्ति भूभौ समः । इत्याकस्मिकमुज्झितुं निखिलमप्युत्सेकमभ्युत्सुक- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ४५ ॥