पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यावच्चित्तमघाद्विकृप्य सुकृते यत्नेन निक्षिप्यते तावत्तिष्ठदिवात्र धावति पुनस्तस्मिन्गते केवलम् । एवं दुर्वशमेव संप्रति वशीकर्तुं प्रयस्यन्निदं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकी जानये ॥ ३४ ॥ आत्मा श्रेयसि वर्तितोऽपि विषयानेवानुयाति द्रुतं यत्कीशश्चतुरन्तयाननिहितोऽप्यारोहति क्ष्मारूहान् । निग्राह्यं यदनुग्रहेण तमिमं शंसन्ति सन्तोऽधुना तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३५ ॥ सुप्तं जागरितं स्थितं प्रचलितं भुक्तं तथोपोषित किं वक्ष्यामि यदात्मने हितमिहामुत्रापि तन्न स्मृतम् । हा हा किं करवाणि सांप्रतमिति त्यक्त्वा शुचं नन्दितुं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३६॥ आजन्माहमिदं दिनावधि गता सा सा दशा स्वप्नव- त्पश्यामो यदि तत्र तत्र मनसा श्रेयो न किंचित्कृतम् । किं वा भावि तथाविधस्य भवतु त्रस्यन्नितो वा परं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ३७ ॥ श्रोतुं घ्रातुमवेक्षितुं रसयितुं स्प्रष्टुं च कौतूहला- दर्थेष्विन्द्रियपञ्चकं तत इतो मामेकमाकर्षति । दीनो दीनदयालवे तदधुना पाहीत्युदस्यन्भुजौ तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ३८ !! कस्मादस्तु वशे मनो यदरिभिः कामादिभिः कृप्यते जीयन्ते कथमिन्द्रियाणि विषयानन्दप्रवृत्तानि मे । प्राच्या वासनया ययैवमभवत्तामेव भङ्क्तुं बला- तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३९॥