पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विश्वगर्भस्तवः । तिर्यग्देवमनुष्यनाकनरकग्रावाब्धिमेधादिभि- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।।४।। ताक्ष्र्येण प्रणतः फणीन्द्रशयनः श्रीभूमिनीडान्वितो वैकुण्ठे निवसन्नवाम्बुदरुचिर्यः शुद्धसत्त्वात्मिकः । शङ्खं चक्रमसिं गदामपि वहन्विश्वत्रयं त्रायते तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ५ ॥ संवर्तव्यतिषङ्गभङ्गुरकृपां चण्डाट्टहासस्फुर- द्विध्यण्डां निटिलाक्षिपावकशिखानिर्दग्धविश्वत्रयाम् । शूलोद्भासिकरां पुरा बहति यः शुभ्रां तनुं तामसीं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६ ॥ शक्राय ज्वलनाय धर्मपतये रक्षोधिपायाम्भसा- भीशाय श्वसनाय शर्वसखये रुद्राय धात्र्यै दिवे । अर्यम्णे शशिने हराय हरये स्रष्ट्रे परब्रह्मणे तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ७ ॥ सूर्याचन्द्रमसोर्महीन्दुसुतयोर्देवासुराचार्ययो- श्छायानन्दनसिंहिकातनययोर्मूर्त्या च केत्वात्मना । मेषादिष्ववतीर्य राशिषु नृणां प्राय्याणि यः प्रापये- तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८॥ सालग्रामशिलासु चण्डकिरणे हृत्पुण्डरीके नृणा- माविर्भूय यथोचित दिशति यः स्वेष्टं फलं भावितः । सत्तामात्रतया स्थितोऽपि सकलेष्वर्थेष्वमेयाकृति- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २॥ गाढोन्नद्धजटाय पङ्कजदृशे कालाम्बुवात्विषे सव्यासव्यकरात्तचापविशिखायांसस्फुरत्तृणये ।