पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७ आनन्दमन्दिरस्तोत्रम् । कादम्बिनीचपलमण्डलमण्डिताभा-- मैन्द्रीदिगङ्गणमणिद्युममणिप्रभाभाम् । तुन्देन्दुसुन्दरकरोत्करभासुराभां संभावयामि भबिकाय शुभां भवानीम् ।। ७५ ।। मुक्ताच्छगुच्छविषदच्छविहारतारा- गौरांशुकांशुनिचयाञ्चितचन्द्रिकारात् । सद्वक्रचन्द्रसुषमा शशिमौलिवामा राकैव सा तिरयतान्मम तीव्रतापम् ॥ ७६ ।। केशालिशैवलचया सुषमाम्बुपीना मीनाच्छमञ्जुनयना स्तनचक्रवाका । अम्भोजभव्यवदना सरसामला मे दूरीकरोत्वगसुंता सरसी सुतापम् ।। ७७ !! तुङ्गाङ्गभङ्गिनि मतङ्गवरे निषण्णा शोणाम्बरा रचितकुङ्कुमपङ्करागा । संध्येव नीलजलदोपरि राजमाना मानाय मे भवतु शैलसुतासमाना ॥ ७८ ॥ रिङ्गतुरङ्गगतिभङ्गितरङ्गिताङ्गी पार्श्वस्थितप्रथमचामरवीज्यमाना। बन्दीन्द्रबृन्दजयनादनिभाभिरामा रामा हरस्य वितनोतु तनोर्मुदं नः ।। ७९ ॥ श्रीमत्सुवर्णशिबिकोपरि राजमाना नाकस्थपाणिचटुचामरवीज्यमाना । मातङ्गदुन्दुभिधुधुंकृतिवन्धुरश्री: सश्रीकमाकलयतादिह मां मृडानी ।। ८० !! २ चतुर्दशगु०