पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

3 केकिप्रकामकलकण्ठविकुण्ठकण्ठां ...................... । श्रीहाटकाङ्कघटितां तरतुङ्गतुङ्ग- शृङ्गस्थितां नगसुतां महितां नमामि ॥ ६९ ॥ बालाकुलाकलितचञ्चलचामराली- वातोर्मिदोलनचला चलवालबाला । लीलाकुलाललितबालमृगाङ्कमौलि- बालामला कलयताद्विपुलं विलासम् ॥ ७० ॥ भालाङ्कुशाभयवरासिसुशक्तिमुद्रा- पाशानकार्मुकमनोरमबाहुमालाम् । मालाकिताच्छचरणां शरणान्तराय च्छेदान्विता नगसुतां कलये विशालाम् ।। ७१ । क्षुभ्यद्विपक्षवरपक्षसुकक्षलक्ष- सद्धक्षणक्षणविलक्षणदक्षकक्षा। पक्षाश्रितस्वजनरक्षणदक्षिणा सा दाक्षायणी क्षपयतान्मदपक्षपक्षम् ॥ ७२ ।। झंझंझझंझझझझं कृतिम गुप्त- न्मञ्जीरपुलसिञ्जितमञ्जुलामिः । थंथंथथंथथथथं थथथथ्यमित्थं सत्ताललालनकलाकलनाकुलाभिः ।। ७३ ।। तंतुंतुणुंतुणुतुणूमिति नादवर्ण्य- वीणागुणानुरणनान्बितसद्मुजाभिः । रम्भादिभी रचितताण्डवमण्डिसाच्छो- द्दण्डारणासुखगणाय ममास्त्वपर्णा ।। ७४ ।।