पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
काव्यमाला ।

चन्द्रो यथा--
 "प्राचीभालविशेषकं सुचपकं दिक्सुन्दरीणामिदं
  क्रीडाकन्दुकमिन्दुलोकसुदृशां काश्मीरपङ्काङ्कितम् ।
 मानोन्मूलनकार्मणं रतिपतेः कालार्भकक्रीडनं
  यामिन्याः करभोरु पश्य पुरतः सौभाग्यमुज्जृम्भते ॥'

मलयानिलो यथा---
 'भृङ्गश्रेणीकृपाणीसरसिरुहवनीधूलिभिर्धूसराङ्गः
  पम्पासंपातकम्पस्खलितगतिरलं माधवीमल्लिकासु ।
 मन्दं मन्दं विसर्पन्मलयगिरिदरीगह्वरेभ्यो दुकूलं
  कर्षन्कर्णाटकान्ताकुचकलशगतं वाति मत्तः समीरः ॥'

अनुभावा व्यभिचारिभावाश्च ग्रन्थान्तरेषूह्याः । इह ग्रन्थगौरवान्न लिखिताः ।

इति श्रीमत्कविकुलतिलकनरहरिविस्कुलोत्तंसश्रीसामराजदीक्षितविरचिता शृङ्गारामृतलहरी समाप्ता ।