पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १७१

खेलत्ययं युवजनेषु नितान्तरक्तो मन्दं मृगाक्षि मृगयां मुदितो मनोभूः ॥'

ग्रीष्मो यथा--- 'शिरीषसंसर्गसुगन्धिशीतसमीरणेऽसिन्सुभगावगाहे । सिते पटीरे इव पङ्किलाङ्के पयोधरे पद्मदृशां मनोभूः ॥'

वर्षा यथा--- 'सौदामिनीकनकदामविभूषिताङ्गी कादम्बिनी गजघटेव मनोजराजः । आसारपातविशदीकृतदानपूरा- न्न.......कस्य मनसो मुदमादधाति ॥'

शरद्यथा-- 'यातं सज्जनचित्तवद्विमलतामम्भः प्रसन्नं नभः कालुष्यं गुरुशिक्षयेव न मनागम्भोधराः संदधुः । चेतांसीव सरांसि हंसललितान्यासन्भृशं योगिनां जातं किं विशदं न वेति विशति स्त्रीणां मनो मन्मथः ॥'

हेमन्तो यथा- 'ह्रसति दिवसो मानैः साकं सरोरुहचक्षुषां व्रजति रजनी वृद्धिं प्रेमप्रपञ्चरसैः सह । भवति च रुचिः सार्धं चित्ते चकोरचमूचयैः स्वपिति तरुणैश्चेतोजन्मा समं कुचभूमिषु ॥'

शिशिरो यथा- 'व्रणयन्नधरं प्रकम्पयंस्तनुमङ्गं च सृजन्सकण्टकम् । असहन्कुचपत्त्रवल्लरीं शिशिरः पद्मदृशां प्रियागमः ॥'