पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७० काव्यमाला ।

द्वितीयो यथा- शीतांशो वदनद्युतिं वरतनोस्त्वं हर्तुमाकाङ्क्षसे त्वं पारीन्द्र विलग्नकान्तिपटलीमेण त्वमक्ष्णोः श्रियम् । बद्धो वाञ्जलिरेष पेशलमिदं नैवास्ति युष्मादृशां तद्यूयं व्रजत प्रयात विषयं नो मार्गणानां मम ॥'

विरहजनितशरीरतान्तिर्व्याधिः । यथा--- 'आधिस्तनोति सुतनोस्तनुतानवानि व्याधिर्दिशत्यविरतं विषमामवस्थाम् । नो तादृशानि दुरितानि पुराकृतानि धन्वी पुरः सरति यत्कुसुमायुधोपि ॥'

अपिच- 'नापैति या नागरचित्रपन्था (?) गुडूचिकाक्षौद्रभवौषधेन । नासत्यतामेत्य नवीनयोगैर्हरे हराम्भोजदृशस्त्वमार्तिम् ॥'

विरहजन्यकायचेष्टाविरहो जडता । यथा-- 'यादव यादव किं वा ब्रूमः सुदृशो बतावस्थाम् । उच्चरिते तव नामनि जीवति सुदतीतिजानीमः ॥'

निधनस्य विरहादमङ्गलत्वाच्च न तद्वर्ण्यम् । आलम्बनविभावानुक्त्वा प्रसङ्गादुद्दीपनविभावा निरूप्यन्ते । ये रसमुद्दीप्य विभावयन्ति त उद्दीपनविभावाः । तेषां च रसं प्रत्युद्दीपनत्वेन कारणत्वम् । ते च ऋतुचन्द्रमलयानिलाद्या वेद्याः ।

ऋतुषु वसन्तो यथा- 'गुञ्जद्द्विरेफमधुरे कलकण्ठकण्ठ- पीयूषपानचतुरे कुसुमाकरेऽसिन् ।