पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६४ काव्यमाला ।

र्भावः । नच माधुर्यमप्यत्रैवान्तर्भवतीति वाच्यम् । प्राचां लेखेषु भिन्नतया परिगणितत्वात् । वस्तुतस्तु अल्पभेदाच्छोभादीप्तिकान्तिमाधुर्याणामैक्यमेव |--- नामानुरोधाल्लिख्यते । दीप्तिः यथा----

'परिपाकः सुकृतानां यूनां चेतोवशीकरणमन्त्रः । त्रिभुवननयनाकर्षणमस्या दीप्तिः समुल्लसति ॥'

सर्वावस्थाविशेषेषु माधुर्यं रमणीयता यथा--- 'सा मण्डनं विनैव स्रवति वरोरुर्वयस्य लावण्यम् । जातु सितापि सुधायास्तनोति किं वा रसोत्कर्षम् ॥'

निःसाध्वसत्वं प्रागल्भ्यं यथा--- 'आलिङ्गनैरुरसिजप्रथिमादिभिर्द्राग भ्रूभङ्गभङ्गुरविलोचनवेल्लितैश्च । सस्मेरहासलपनैर्लपनैर्भुजिष्य- मातन्वते हृदयवल्लभमिन्दुमुख्यः ॥'

औदार्यं विनयः । स यथा--- 'न परुषाक्षरमुल्लपितं पुनर्भ्रुकुटियुग्ममकारि न भङ्गुरम् । मयि कृतागसि केवलमेतया विनतया भुवि संदधिरे दृशः ॥'

मुक्तात्मश्लाघना धैर्यं मनोवृत्तिरचञ्चला । यथा--- 'दहतु दहतु सद्यः शर्वरीशः शरीरं वितरतु रुजमारान्मानसे मीनकेतुः । कथय कथमथाहं हन्त तस्यानुरागा- त्कुलमहह कलङ्कक्लान्तमेतत्करोमि ॥'

अथ हावाः । तत्र लीला--- 'अङ्गैर्वेषैरलंकारैः प्रेमनिर्वचनैरपि । प्रीतिप्रयोजितैर्लीलां प्रियस्यानुकृतिं विदुः ॥'