पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १६३

शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता । औदार्यं धैर्यमित्येते सप्त भावाः स्वभावजाः ॥ लीलाविलासो विच्छित्तिविभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं विव्योको ललितं तथा ॥ विहृतं चेति विज्ञेया दश हावाः शरीरजाः ॥'

तल्लक्षणानि- 'निर्विकारात्मकात्सत्त्वाद्भावस्तत्राद्यविक्रिया । आद्यविक्रियेषत्कटाक्षादिः । अल्पालापः स शृङ्गारो हावोऽक्षिभ्रूविकासकृत् ॥ भ्रूविकासकृदितिपदान्नातिविकारः पूर्वस्मिन्निति सूचितम् । 'स एव हेलासु व्यक्तः शृङ्गाररससूचकः ।'

स एव हाव एव । तत्र 'रूपयौवनलालित्यभोगाद्यैरङ्गभूषणम् ।'

'अकुङ्कुममकेसरं ललितमण्डनं तन्नृणा- मचन्दनमचन्द्रकं हृदयशैत्यसंदोहदम् । वयः किमपि मान्मथं विजयशस्त्रमत्यद्भुतं विना कनकमङ्गदं वरतनोस्तनौ जृम्भते ॥'

'शोभा प्रोक्ता सैव कान्तिर्मन्मथाप्यायितद्युतिः' । मदनविस्तारिता द्युतिरित्यर्थः ।

यथा- 'त्रिभुवनमानसहंसी युवनयनचकोरपौर्णमासीयम् । कस्य न वा कुसुमेषोर्नटशाला हरति मानसं बाला ॥'

कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते । लावण्यस्यात्रैवान्त-