पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १५९

वितरति मम वित्तं मन्मथोन्मत्तचित्तं तदपि सखि समानं वल्लभः किं निदानम् ॥'

कार्यतो दूरदेशस्थिते प्रेयसि संतापव्याकुला प्रोषितपतिका । दूर इत्युपलक्षणम् । कार्यत इतिपदस्य नायिकाज्ञातकार्यादित्यर्थेनोत्काविप्रलब्धयोर्नातिव्याप्तिः । स्वीया प्रोषितपतिका यथा--- 'हलाहलाकारि पटीरमद्य हाला विलासं तनुते कृशानोः । कथं नु कारीषकृपीटयोनेस्तुल्यास्तुषारांशुकरा भवन्ति ॥'

परकीया प्रोषितपतिका यथा--- 'सद्यः पाटलताभिया शशिमुखी गृह्णाति वीटीं न वा श्रीखण्डैस्तनुते तनोर्वरतनुः सा पाण्डुतानिह्नवम् । बाष्पं मुञ्चति कर्णकेतकरजःपातच्छलान्नेत्रयो- रानन्दाभिनयेन गोषयति च द्रागुद्गतं गद्गदम् ॥'

सामान्यवनिता पोषितपतिका यथा----- 'इभ्यस्तादृग्वल्लभश्चेदिह स्यात्किं किं द्रव्यं हा मया नार्जितं स्यात् । स्सारं सारं बाष्पधारामुदारां हाहाकारं वारनारी बभार ॥'

ननु 'प्रस्थानं वलयैः कृतम्' इत्यादि महाकविप्रयोगानुसारेण प्रवत्स्यत्पतिका नवमी नायिका भवितुमर्हतीति चेन्नैवम् । योजनशतं योजनादिकमिवाल्पमुत्प्रेक्षितं, विप्रलम्भजनकत्वेन सजातीयभेदमवगणय्य स्वतन्त्रेच्छेन महर्षिणा ऐक्यविवक्षणात् । तदुक्तम्--'प्रवत्स्यत्पतिकाप्यत्रैवान्तर्भवति तत्त्वतः' इति । किंच प्रवासो नाम स्वावच्छिन्नदेशविभागोत्तरदेशसंयोगानुकूलं कर्म, नतूत्तरदेशसंयोग एव । मार्गं गच्छत उत्तरदेशसंयोगाभावेऽपि प्रवासित्वानाकल्पनापतेः । तथा च