पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५८ काव्यमाला ।

कृत्वा भूषामुचितविषयैर्वल्लभं का यियासु- र्मल्लीमाल्यैर्वितरति भृशं केशपाशं सुकेशी ॥'

दिवाभिसारिका यथा--- '----ते मुदिरेधी-रि प्रसर्पति वैद्युते(?) वनभुवि मिलत्पशाङ्काङ्कायां जने गतिमन्थरे । स्तिमितवसनं यूनोरग्रे मिषादभिसर्पतोः प्रसरति परीरम्भारम्भः सकण्टकगण्डयोः ॥'

प्रियाभिसारणादभिसारिका यथा----- 'येनावगच्छति न मे लघुतां तनोति कारुण्यमेति च पुरा रभसेन कान्तः । दूति प्रपञ्चचतुरासि तथा विधेयं प्रेमोपहासविषयं न यथा प्रयाति ॥'

नैतदन्तर्भावः । अभिसारिकात्वं न प्रियाभिसरणेनेत्यपि कश्चित् । अनारताज्ञाकरप्रिया स्वाधीनपतिका ।

स्वीया स्वाधीनपतिका यथा----- 'तनवै बहुशो निषेधवाचः करवै यद्यपि नीविरोधनानि । मनुते नयनाधिदेवतां मां तदापि प्राणासमः कुतो न हेतोः ॥'

परकीया स्वाधीनपतिका यथा--- 'तामरसोदरनयनाः सन्त्येव हि बहुमताः स्वीयाः । छायेव मां न मुञ्चति दृष्टिर्दयितस्य किमिह न निदानम् ॥'

सामान्यवनिता स्वाधीनपतिका यथा--- 'कति कति न कुरङ्गीलोचनाः सन्ति यासां दिशति वचनभङ्गी कामसङ्गीतलीलाम् ।