पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५६ काव्यमाला ।

भर्तुरनागमने कारणं चिन्तयन्ती संतापव्याकुला उत्का । स्वीया उत्का यथा--- 'सुचारु वान्यासु सुलोचनासु प्रसह्य नीतो दवितो तु तामिः । अनागमं चेतसि चिन्तयन्ती प्राणेश्वरस्येन्दुमुखीति तस्थौ ॥'

परकीया उत्का यथा- 'आगच्छन्विनिवारितः प्रियतमः किंवा वयस्यैर्जनै- रानेतुं न गता किसु प्रियसखी दग्धो नु पुष्पायुधः । प्रेयःकोकिलकाकलीकलकलप्रोद्बुद्धमीनध्वजे नायातः परिणीतवामनयनादाक्षिण्यकः किं वने ॥'

सामान्यवनिता उत्का यथा---- 'नायातः किममू विलोक्य मदनव्यापारदीक्षागुरु- र्हन्ताभ्यामफलीकृतोऽद्य विपुलद्रव्योपलब्ध्युद्यमः । उत्त्कैतत्पतितं पयोधरयुगं वाराङ्गना कञ्चुकी- बन्धादुन्नमितुं तनोति विपुलद्रव्यागमोत्कण्टिता ॥'

चाटुप्रवणं प्रणयिनमवमत्य परितापवती कलहान्तरिता । स्वीया कलहान्तरिता यथा---- 'मम मन्दभाग्यवशतो विचारणा- मवधीरणासु दयितस्य नाकरोः । अयि दुग्धचित्त तनुषेऽतिवेदनं परिदेवनं किमिति हन्त संप्रति ॥'

परकीया कलहान्तरिता यथा- 'नाकारि कर्णपथमालिजनस्य शिक्षा न क्षालितो गुरुवचोभिरपि स्वपन्थाः ।