पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १५५

संकेतनिकेतने कपटवचनादिना वञ्चिता विप्रलब्धा । स्वीया विप्रलब्धा यथा--- 'वयस्यावाक्यविश्वासादेत्य कुञ्जं कृशोदरी । दधौ शून्यतरां दृष्टिमवीक्ष्य रतिदीक्षितम् ॥'

परकीया विप्रलब्धा यथा-- 'अवमत्य गुरून्सखीरपृष्ट्वा हतदूतीवचनेन काननेऽगाम् । नयनातिथितामियाय नाथो बत नाथः करवाणि किं विधातः ॥'

सामान्यवनिता विप्रलब्धा यथा--- 'इह सुन्दरि तावदास्यतां विपुलं यावदुपानये वसु । इति केनचिदापणाङ्गना कितवेन प्रसभेन वञ्चिता ॥'

अन्यसंभोगचिह्निते प्रेयसीर्ष्याकुला खण्डिता । स्वीया खण्डिता यथा--- 'अभिदर्शयितुं निजामभिख्यां परिधायांशुकमागतोऽसि तस्याः । श्रवसी परिनिर्वृते पुरा मे नयनद्वन्द्वमदोऽपि निर्ववार ॥'

परकीया खण्डिता यथा------ 'रात्रिजागरविघूर्णितेक्षणं वीक्ष्य कान्तमरविन्दलोचना । उद्बभार बत लोकशङ्कया बाष्पनिर्झरमतन्त्रपक्ष्मणा ॥'

सामान्यवनिता खण्डिता यथा----- 'अन्यस्यै द्रविणमदाः कथं मदर्थे नीतं तद्द्विगुणमुपाहरेति भूयः । बाष्पाम्बुस्नुतनयनापणाङ्गनासौ कान्तस्य द्रुतमुरसो जहार हारम् ॥'