पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १५३

अस्माकं तु समीरणं वितनुते चेलाञ्चलैरादरा- द्वीटीमाननपङ्कजे विसृजति प्राणेश्वरः किं क्रिये ॥'

मानवती यथा । प्रियागराधसूचिका चेष्टा मानः । स च लघुर्मध्यो गुरुश्चेति त्रिधा । तत्र पराङ्गनादर्शनजन्मा भूषणदानाद्यपनेयो लघुः । गोत्रस्खलनादिजन्मा शपथादिकष्टापनेयो मध्यमः । परस्त्रीसंगमजन्मा चरणपातादिकष्टतरापनेयो गुरुः । असाध्यस्तु रसाभासः ।

लघुर्यथा- 'पश्यत्यन्यकुटुम्बिनीं प्रियतमे रोषैरलं सुव्रते मल्लीकाननचारिषट्पदयुवा शक्यो निरोद्धुं कुतः । स्यात्ते गण्डतटेऽथ कण्टकचिते स्वेदाम्बुभिः पिच्छ[च्छि ले स्थातुं सुन्दरि वेपिनि स्तनतटे शक्यो नु मानः कथम् ॥'

मध्यो यथा--- 'लीलाविलासमधुराक्षि मया द्वितीया कामालसेन तव साध्वभिधा व्यधायि । चेदन्यथाद्भुतपयोधरशातकुम्भ- शम्बूकृशोदरि भृशं समुपस्पृशेयम् ॥'

गुरुयथा--- 'वक्षो वीक्ष्य ममैणशावकदृशा कस्तूरिकाचर्चितं यारद्यावकशोणकोणकलुषे कोपात्कृते लोचने । तावन्नैजकिरीटकोटिविलसद्रत्नाङ्कुरोस्त्रैर्मया पादद्वन्द्वपयोजयोर्वरतनोः क्लृप्तैव नीराजना ॥'

रसाभासो यथा-- 'दत्तान्याभरणानि नुत्तमनिलैर्घर्माम्बु तालोत्थितै रेणुस्त्वत्पदयोः सरोजवदने संमार्जितो मूर्धजैः