पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५२ काव्यमाला ।

कत्वापत्तेः । न चेष्टापत्तिः, कामिमनोवृत्तिविहाराश्रयित्वस्य लक्षणस्य सत्वात्, नायिकात्वेन महाकविभिर्व्यपदिश्यमानत्वाच्च । सा यथा---

'एकं चुम्बितुमीहते पुरवधूर(न्यां)[न्यं] समालिङ्गितुं (केचि)[कंचि]न्मज्जयति प्रसह्य मदनक्रीडासुधावीचिषु । साकूतस्मितशोभिगण्डमपरं भूयः समुद्वीक्षते कं कं नाम नरं न रञ्जयति वा चामीकरालिप्सया ॥'

एता अन्यसंभोगदुःखिता वक्रोक्तिगर्विता मानवत्यश्चेति तिस्रो भवन्ति । प्रेमगर्वितायाः वक्रोक्तिगर्वितायामन्तर्भावान्न चतुर्विधत्वम् । अन्यसंभोगदुःखितत्ववक्रोक्तिगर्वितत्वयोर्धर्मयोः सर्वत्र संभवः । परकीयासामान्यवनितयोरुक्तयुक्त्या मानासंभवान्मान[वत्]त्वं स्वीयाया एवेति तत्वदर्शिनः ।

अन्यसंभोगदुःखिता यथा- 'यातायास्तव केतकीवनपथाद्भिन्ना तनुः कण्टकैः प्रायो नीचतरस्य माननविधावामृष्टरागोऽधरः । उत्कीर्णः कबरीभरोऽस्य पदयोर्मौलौ[लेर्मु]मुहुर्लोलनात् खेदं नो[द्व]ह तिष्ठ नागमदसौ चेन्मा व्यलीकं गमः ॥'

वक्रोक्तिगर्विता द्विधा--सौन्दर्यगर्विता प्रेमगर्विता च । आद्या यथा--- 'अङ्गदरचनां प्रमदाः समदाः कुर्वन्तु रमणतोषाय । अपसारितनेपथ्यां जीवातुं मां प्रियो मनुते ॥'

द्वितीया यथा--- 'अन्यास्ताः सखि योषितः सहवरं लावण्यलीलाग्रहाः सेवाभिः प्रचुराभिरुन्मिषदुरुप्रेमाणमातन्वते ।