पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १५१

प्रत्येकमुदाहृतयो यथा--- 'नीते हालिकसार्थैश्चरमावस्थां शनैश्च शणवाटे । जाता पलाण्डुपाण्डुस्तस्या गण्डस्थली सुतनोः ॥'

'गोदावरी तटनिविष्टविलोलनेत्रे स्वेदैरलं कलय नाथगृहे निवासम् । तत्रापि पत्रचयचर्चितवल्लिवेलं वेश्मानि सन्ति न कृशोदरि या कियन्ति ॥'

उड्डीनकारण्डवचक्रवाककोलाहलाकर्णनतः कृशाङ्ग्याः । मार्तण्डरश्मिग्लपितेन्दुबिम्बशोभाममुप्या वदनं बभार ॥'

वस्तुतस्तुस्त्वेते भेदाः परकीयाया एव; न स्वीयाया इत्यप्रयोजकमेव; अविशेषात् । निमित्ताभावस्य शपथानिर्णेयत्वं तु कुलटात्वं निमित्ताभावादेव न भवतीति दिक्(?)। बि(त्तमात्रो)[त्तो पाधिकसकलपुरुषानुरागा सामान्यवनिता । वित्तमात्रोपाधिरिति तु संपातपाती लेखः । वसन्तसेनाकामकन्दलादेर्वित्तमात्रोपाधिं विनाप्यनुरागदर्शनात् । तथा च कचिद्वित्तोपाधिको रागः कचिच्च कामुकत्वादिति दोषः । तदुक्तम्-'वित्तमात्रं समालोक्य सा रागं दर्शयेद्बहिः' । तथा--'एषापि मदनायत्ता क्वापि स्यादनुरागिणी' इति । अग्निमित्रेऽनुरक्तायामैरावत्यां नाव्याप्तिशङ्कापि; वित्तोपाधेः सत्वात् । वस्तुतस्तु प्रकटसकलपुरुषानुरागित्वमेव लक्षणम् । वित्तोपाधिककामित्वादिकं तु स्वरूपकथनम् । अतएव न कुलटायाः सामान्यवनितायामन्तर्भावः । एतेन वेश्याया रसालम्बनाभावतया शृङ्गारा(ना)लम्बनत्वेन नायिका निरूप्यते सा त्रिविधेति भानुकरः प्रत्युक्त इत्युच्छृङ्खललेखः परास्तस्तस्यासत्वेऽनायि-