पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४८ काव्यमाला ।

एकस्या वदने निधाय वसनं हेलामिपात्सादरं धन्यां चुम्बति शारदेन्दुवदनामन्यां मुहुर्नागरः ॥'

'अङ्गाङ्गानि ममासि शारदनिशानाथानने किं रुषा त्वं मे कण्ठचरा सुधाधरतले प्राणाः क्रुधा किं मुधा । इत्थं मन्मथकेलिकौलभवनेनाहूय कंसारिणा नीते कोपकषायिते प्रियतमे स्मित्वा प्रमोदास्पदम् ॥'

'मेदिन्यां निपतितमङ्गनामथैकां प्राणेशोऽवचितुम्योजयत्प्रसूनम् । चूडाग्रस्थितकुसुमोच्चिचीषुमन्या- मालम्बन्वलयितबाहुरालिलिङ्ग ॥'

गूढपरपुरुषानुरागा परकीया । गूढपददानान्न वेश्यायामतिव्याप्तिः । सा द्विधा परोढा कन्यका च । परकीयात्वं पराधीनत्वम् । तेन न कन्यायामव्याप्तिः। तस्याश्च पित्रधीनत्वात् । ननु दमयन्त्यादेः पुरा परकीयात्वे पुनश्च स्वीयात्वे स्वीया परकीयेति भेदवैषम्यापत्तिरिति चेत् । न । प्रधानापकर्षेण काव्यनाटकादौ प्रधानरसे परोढानिबन्धनत्वस्यानुचितत्वात् । तदुक्तम्--'नान्योढाङ्गिरसे क्वचित् ।' न ह्येतद्भेदकथनवैयर्थ्यमिति वाच्यम् । 'कामकलाशिक्षायै स्वरक्षायै चारोहति मदने यायात्परयोषितम् ।' इति कामशास्त्रानुरोधेन तद्वर्णनसंभवादिति संक्षेपः।

परोढा यथा--- 'अद्याकारि विलोचनातिथिरसौ दामोदरः सुन्दर- स्तिग्मद्योतिसुतातटे विरचयन्वंशीस्वनं मोहनम् ।


१. अपीति युक्तं प्रतिभाति.