पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १४७

भर्तुरधिकस्नेहा ज्येष्ठा । परिणीतत्वे सति भर्तुर्न्यूनस्नेहा कनिष्ठा । अन्ये तु मुग्धाया नेमौ भेदाविति जल्पन्ति । तन्न मन्यामहे । ज्येष्ठत्वकनिष्ठत्वे च नायकाधिकन्यूनस्नेहनिबन्धने; ते च न मुग्धायामिति वक्तुमशक्यत्वात् । ननूपक्रमोपसंहारविरोधः । उक्तयुक्त्या मुग्धायां मानस्य खण्डितत्वेन धीरत्वाद्यसंभवात्, एतेषामेव च षण्णां ज्येष्ठत्वादिभेदभेद्यत्वान्न तस्यां तत्संभवः । न च ज्येष्ठत्वादिकं न धीरादिनियतं किंतु भर्तृप्रतियोगिकाधिकन्यूनस्नेहनिवन्धनमित्युक्तमिति वाच्यम् । एते च षडिति लेखनवैयर्थ्यापत्तरिति चेत् । न । धीरत्वादिकमवस्था स्वभावो वा । नान्यः । माननियतत्वानापत्तेः, मुग्धायां तत्संभवापत्तेश्च । आद्य इष्टापत्तेः । न च ज्येष्ठात्वकनिष्ठात्वयोरवस्थाने एकस्या एव तत्तत्कालोपाधित्वेन तत्तञ्चष्टाश्रयत्वेन च तन्निमित्तीभूतभर्तृनिष्ठक्रियाजन्यत्वेन च खण्डितात्वविप्रलब्धात्वकलहान्तरि[ता त्वादीनि यथा तथा एकस्या एव ज्येष्ठत्वकनिष्ठत्वापत्तिरिति वाच्यम् । ज्येष्ठत्वादेस्तथात्वस्य भर्तृप्रतियोगिकाधिकन्यूनस्नेहनिबन्धनत्वेनेष्टत्वात् । न चैवमेते च षडिति लेखनवैयर्थ्यमिति वाच्यम्; धीरादिषट्वस्याविवक्षितत्वात् । यद्वा चकारो भिन्नक्रमस्तनैते धीरादि षट् मुग्धाभेदाश्चति । तथा च जृम्भते मुग्धायामपि ज्येष्ठात्वकनिष्ठात्वविलसितमिति संक्षेपः । इतरे तु उक्तभेदानां प्रच्छन्नप्रकाशभेदाद्द्वैविध्यमूचिरे । तन्न सुन्दरम् ; प्रच्छन्नस्वीयेत्यादिवाक्यस्य दुर्बलत्वात्, धीरादिषु धीरत्वादिभेदातिरेकेण प्रच्छन्नत्वादिभेदासंभवाच्च । क्रमेणोदाहरणानि यथा-----

'एकत्र स्थितयोस्तयोः कलयतोः क्रीडां सरोजस्थयोः(?) स्वैरं स्वैरमुपेत्य कोऽपि तरुणो लीलावतामग्रणीः ।


१. 'सरोजस्थले' इति स्यात्.