पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ काव्यमाला । 'करवाणि वरोरु यत्नतो मृगनाभीतिलकं तवालिके । उदयं क्षितिमण्डले यथा मिहिकांशोर्मनुते जनः क्षणम् ॥' 'मकरीमिषेण तस्याः कपोलफलकेऽलिखन्मुखं नैजम् । अभिदर्शयंश्च मुकुरं जहास शनकैर्युवा कश्चित् ॥' 'पातुं षट्पदतरुणस्त्वदधरमम्भोजलोचने भ्रमति । इति भीता मुहुरबला सहासमालिङ्गयत्कान्तम् ॥' तत्र शुद्धस्य भेदाभावात्सशृङ्गारस्य भेदमाह----आत्मोपक्षेपसंभोगमानैः शृङ्गार्यपि त्रिधा । शृङ्गारि(रं) शृङ्गारहास्यमित्यर्थः । स्वानुरागमात्रनिवेदकं, संभोगेच्छानिवेदकं, माननिवेद्रकं चेति त्रिधा ।

'नर्मस्फुञ्जः सुखारम्भो भयतो नवसंगमे । नर्मस्फोटः स्वभावानां सूचकोऽल्परसोत्सवैः ॥' 'छिन्ननेत्रपरीवारि नर्मगर्भोऽर्थहेतवे । अङ्गैः सहास्यनिर्हास्यैरेभिरेषा त्रिकौशिकी ॥' नर्मभेदाः सहास्या इतरे निर्हास्या इत्यर्थः । एतैरङ्गैरुपलक्षिता कौशिकीति भावः । एतदुदाहारणानि काव्यनाटकादिषु वेदितव्यानि । इह प्रपञ्चभयान्नोदाहृतानि । इति कौशिकी ।

सात्वत्यादीनां तु वीराद्युपयोगित्वान्नेह वर्णनमुचितमिति ता उपेक्षिताः।

अथ शृङ्गारस्योभयनिष्ठत्वे नायिकाप्रपञ्चो रच्यते । तल्लक्षणं तु कामवत्त्वम् । न च मुग्धायामव्याप्तिः । भीतेः सुरतप्रातिकूल्येऽपि कामसत्त्वात् । एतेन अज्ञातयौवनां मुग्धाभेदं वदतो भानुकरस्य लेखः परास्तः । कामासत्त्वेऽनायिकत्वापत्या कामसत्त्वेऽज्ञातयौवनात्वन्याधातादुभयतःपाशारज्जोर्दुर्वारत्वात् । वस्तुतस्तु कामिमनोवृत्तिविहाराश्र-