पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १४१ 'धीरं धीरं वहति सुतनो मारुतो दाक्षिणात्य- श्चापं धुन्वत्यलिकुलरुतैर्हुंकृतैः पुष्पधन्वा । डिण्डीघोषं रचयति पिकः शोधयन्मानिनीनां चेतः स्थास्नुः क्षणमपि कथं मानसे मानबन्धः ॥' 'शून्ये सुपर्वसद्मनि मेलितयोर्वीक्ष्य वदनमथ यूनोः । यातं कुसुमानयनच्छलेन सहसा सहचरेण ॥' "सद्यः शारदशर्वरीश्वरमुखीमानीय तल्पान्तिकं तैस्तैर्मन्मथचेष्टितैर्नरपतिर्यावन्निनीषुः क्षपाम् । अब्रह्मण्यमिति श्रुते स चकितं कौक्षेयहस्तोऽभ्यगा- त्किं किं वेत्ति विदूषकेण भणितं वाञ्छाम्यहं मोदकान् ॥" अथ नायकोपाचरणवृत्तयः । 'तद्व्यापारात्मिका वृत्तिश्चतुर्धा परिकीर्तिता । कौशिक्यारभटी चैव भारती सात्वती तथा ॥' तत्र कौशिकीस्वरूपं तु 'गीतनृत्यविलासाद्यैर्मृदुः शृङ्गारचेष्टितैः' । करणे तृतीया । तथा च मृदुपदेन संबन्धाच्छृङ्गाराप्रधानेत्यर्थोऽवगम्यते । तृतीया चोपलक्षणम् । तथा च शृङ्गारचेष्टितोपलक्षितेत्यर्थ इति केचित् । तन्न । उपलक्षितस्य व्यर्थत्वात् । सा च 'नर्मतः स्फुञ्जतः स्फोटतद्गर्भैश्चतुरङ्गिका' । चतुर्विधेत्यर्थः । तत्र स्फुञ्जो नर्मस्फुञ्जः एवमग्रेऽपि । विदग्धक्रीडननर्मप्रियोपच्छन्दनार्थकम् । प्रियावशीकरणफलकमित्यर्थः । तत्त्रिधा । शुद्धसशृङ्गारसभयसहास्यभेदात् । क्रमेणोदाहरणानि---


१. 'धूनोति' इति भवेत् ।