पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १३३ मनुभावरूपतेति चेत्, नायिकानिष्ठकटाक्षस्य नायिकानिष्ठरसेऽनुभावकतया नायकनिष्ठरसे तु तस्योद्दीपनत्वेऽपि नानुपपत्तिलेशोऽपि । रसत्वं च रसो रस इत्यनुभवसाक्षिको जातिविशेषः । स्तम्भादिकारणतावच्छेदकतया रसत्वजातिसिद्धिरित्यन्ये । आदिपदाद्भरतोक्ताः स्वेदरोमाञ्चप्रमुखा अवगन्तव्याः।

'स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥' इति ।

ते यथा-- 'रोमाञ्चः कुचयोः स्वरच्युतिरथो वाचां प्रपञ्चे पदे स्तम्भः स्वेदपरम्परापरिचिता गण्डस्थली सुभ्रुवः वैवर्ण्यं वदनेऽश्रु लोचनयुगे बिम्बाधरे वेपथु- र्मालिन्यं हृदये तदद्य विषयः प्रायो हरिर्नेत्रयोः ॥'

तत्प्रत्येकोदाहरणे वेपथुस्तम्भौ यथा- 'यूयं यात पदं न याति पुरतः प्रादुर्भवत्कम्पया वक्षोजद्वयभारखिन्नतरयाक्रान्तं भृशं जङ्घया । आवासोऽप्यतिदुर एव शनकैर्यास्येऽहमित्येकया तस्थे सस्मितमाकलय्य तरुणं कुञ्जोदरे बालया ॥'

'शृङ्गारवीरकरुणारौद्रहास्यभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥'

केचित्तु- 'नासी खेलनरागि पीतवसने बद्धादरं शैशवे नाभूश्चन्द्रमुखीसुखं गिरिधरे रञ्जि क्षणं यौवने ।