पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ काव्यमाला । भवति' इति श्रुतेः । आनन्दप्रकाशत्वं तु भग्नावरणत्वमिति बोध्यम् । तेनावरणसत्त्वे न रसोद्बोधः । आवरणं त्वज्ञानमेव । विषयान्तरासक्तिरिति यावत् । अत एवोक्तं 'चर्व्यमाणतैकप्राण' इति । तथा च पानकरसन्यासेन मुहुर्मुहुश्चर्व्यमाणो ब्रह्मानन्दास्वाद इव प्रादुर्भवन्नलौकिकचमत्कारी भग्नावरणतया स्वप्रकाशरूपो रस आविर्भवति' । चर्वणा चानन्दाभिव्यक्तिः ॥ ननु कथं विषयान्तरव्यासक्तावपि न सेति चेत् । न । विभावादिज्ञानाभावात् । अत एवोक्तम्-'विभावादिजीवितावधिः' इति । भावयति वासयति ( इति) भावो वासना तेन विगलितवासनेषु न रसप्रसङ्गः । ननु चिदानन्दोद्बोधः कथमन्तःकरणवृत्तिविशेषः स्थायिभावाभिव्यक्तावेवेति चेत् । न । इदमवधेयम् । वेदान्तमते ज्ञानत्वावच्छिन्न आत्मभाननैयत्यात् काव्येऽपि ‘विभावादिभिर्व्यक्तः स्थायी' ।तस्यामभिव्यक्तावन्तःकरणवृत्तिरूपायामात्मापि चैतन्यानन्दस्वरूपो भासते । आत्ममनोयोगरूपात्मभानसामग्रीसत्त्वात् । तथा च पर्यवसितमेवान्तःकरणवृत्तिविशेषस्थायिभावाभिव्यक्तावानन्दरसोद्बोध इति । तत्र च विभावादिसंभेदोऽप्यावश्यकः ।

उक्तं च भरतेन । 'स्वादः काव्यार्थसंभेदो ब्रह्मानन्दसमुद्भवः' इति । काव्यार्थो विभावादिः, संभेदो ज्ञानम् । उक्तं च विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति । तथा चालम्बनोद्दीपनभेदाद्विभावो द्विविधः । तत्रालम्बनानि ललनादीनि, उद्दीपनान्युद्यानादीनि, अनुभावाः कटाक्षादयः, व्यभिचारिणो निर्वेदादयः । अत्र केचित् 'सरलेनैव कृशोदरि विलोचनेनास्ति हस्तगा जगती । क्रूरारालेन पुनः कठिने किं काङ्क्षसे यूनाम्' इत्यादौ कटाक्षादीनामुद्दीपनत्वप्रतीतेः कथ-