पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १३१

गत्वा स्वकीयसदनं रतिमाविलोक्य
हृष्टान्तरः समभवत्स मनोजभूपः ॥ ३६ ॥

इति शिशिरवर्णनम् ।

इति श्रीबान्धवकरोपनामकश्रीकामराजदीक्षितात्मजश्रीव्रजराजदीक्षितविरचितं षडृतुवर्णनकाव्यं समाप्तम् ।


श्रीसामराजदीक्षितविरचिता

शृङ्गारामृतलहरी ।

सिन्धुसुताकुचकुङ्कुमपाटलवक्षःस्थलं किमपि ।
उपवीणितं च निगमैः सटाजटालं महः कलये ॥ १ ॥
नरहरिविन्दुपुरंदरजनुपा विदुपाथ सामराजेन ।
शृङ्गारामृतलहरी विरच्यते रसिकजीवातुः ॥२॥

तत्र तावद्रसो विचार्यते।

स्थायिभावो रसः।

ननु स्थायित्वव्यपदेशतया रसस्य नैरन्तर्यापत्तिः । मैवम् । विरुद्वाविरुद्धभावानभिभाव्यतया स्थायित्वव्यपदेशो, न तु नित्यतया ।

 उक्तं च भरतेन-

'विरुद्धा अविरुद्धा वा यं तिरोधातुमक्षमाः ।
आनन्दाङ्कुरबीजोऽसौ भावः स्थाथिपदास्पदम् ॥

 केचित्तु स्थायिवृत्तिरूपः सूक्ष्मोऽन्तःकरणपरिणामविशेषोऽन्तःकरणात्मा धर्मधर्मिणोरभेदादित्याहुः । वस्तुतस्तु-आनन्दरूपप्रकाशमानं स्थायिभावावच्छिन्नं चैतन्यं रसः । स्थायिभावावच्छिन्नपदेन चित्स्वरूपं ब्रह्मैव 'रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी