पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३० काव्यमाला ।

पानीयं सरसीषु पातुमथ तन्मङ्क्तुं गतैः कानिचि-
च्छ्रीमत्कामनृपस्य हस्तिनिवहैरुन्मूलितानीव किम् ॥ ३० ॥
धनुस्तीक्ष्णान्बाणान्स्थितमपि निधाय स्वपुरतो
गणानामीशं तं कुसुमविशिखो ज्यास्वतिबलात् ।
इतीवेयं चित्रं सकलकुसुमोत्फुल्लनमिषा-
द्धसन्ती कुन्दानां विपिनसरणिर्भाति शिशिरे ॥ ३१ ॥
अचपलतरभृङ्गाक्रान्तमध्यस्थभागं
नरगस(?)नवपुष्पं भाति संमोहनाय ।
किमु नवरजताढ्यस्थालिकास्थैणनाभी-
घुसृणजगुटिकेयं स्थापिता मन्मथाग्रे ॥ ३२ ॥
कुन्दप्रसूनकलिकाशरपञ्चकस्य
तत्फुल्लपुष्पभरकार्मुकमाविधाय ।
श्रीमन्मनोजनृपतिर्हि मनो हरस्य
लक्षीचकार गिरिजाभिरतं नु कर्तुम् ॥ ३३ ॥
तद्बाणविद्धहृदयः सदयं विलोक्य
पार्श्वस्थशैलतनयाननचारुपद्मम् ।
हृष्टान्तरः स हि बभूव तथा यथाशु
स्वार्धाङ्गभागसुहृदं किल तां चकार ॥ ३४ ॥
कुर्वते च नमस्तस्सै मन्मथाय मुराधिपः ।
ततः प्रासादमानीय पारितोषिकमादिशत् ॥ ३५ ॥
तत्पारितोषिकमसौ शिरसाभिवन्द्य
सद्यो गृहीतविबुधाधिपसंमताज्ञः ।