पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षडृतुवर्णनकाव्यम् । १२९

अग्रे तदात्वगतवाजितदश्ववार-
पाश्चात्यसादिगणवाजिखुरोद्धताशु ।
रोदोन्तरालमधिकृत्य विसर्पमाणा
धूलिच्छटेव परितः शुशुभे हिमानी ॥ २५ ॥
युद्धं गणाधिपतिनापि शिवेन कर्तु-
मासाद्य शीतगिरिदुर्गमनङ्गभूपः ।
आज्ञप्तवानथ निजान्परिचारकाग्र्या-
न्सेनानिवेशनविधिं त्वरितं विधातुम् ॥ २६ ॥
संध्याविचित्रविविधाधिकवर्णशोभि
कीरालिनद्धरसनं तुहिनं विभाति ।
रोदोन्तरालमधिकृत्य दिगन्तसंस्थं
किं चीवरावरणमेतदनङ्गराजः ॥ २७ ॥
अस्तोदयाद्रिशिखरोज्ज्वलकीलनद्ध-
सूर्येन्दुसान्द्रतररश्मिसुरश्मिनद्धम् ।
तारावलीसमशुकालिविराजमान-
कामाम्बरालयमिवाम्बरमद्य भाति ॥ २८ ॥
वायोर्निवारकदिगष्टकपर्वताच्छ-
संस्थापिताश्मकलशं तुहिनर्तुपूषा ।
सूर्यास्तकालजनितं प्रसूतं तुषारं
किं चन्द्रिकास्तरणमेतदनङ्गराजः ॥ २९ ॥

इति हेमन्तवर्णनम् ।

कर्तुं निर्जरसुन्दरीभिरमलान्कर्णावतंसान्क्षणा-
दुद्वांतानि सरोरुहाणि शिशिरे जानीमहे कानिचित् ।

९ चतुर्दशगु०