पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२८ काव्यमाला ।

स्तनितधृतविलान्तःकालसूताधिरूढो
रथ इव च विहायः शम्बरारेर्विभाति ॥ १९ ॥

इति वर्षावर्णनम् ।

नक्षत्रमौक्तिकगणालिवृतः समन्ता-
द्रोदोऽन्तरालपृथुदण्डविराजमानः ।
ऊर्ध्वं शरत्समयमानवसंधृतोऽयं
कामातपत्त्रमिव भाति कलाधिराजः ॥ २० ॥
श्वेतोत्पलप्रकरगन्धवहेन गन्ध-
वाहेन पार्शनिकटस्थितमानवेन ।
आन्दोलितं विशदनूतनकाशपुष्पं
कामस्य चामरमिवावनतं विभाति ॥ २१ ॥
मदक्षयवशादिवावगलिताच्छपुच्छव्रजं
कृतोच्चतरकंधरारुचिरनालिकाधिष्ठितम् ।
घनान्तशरदन्तरासमयमानवप्रोद्धृतं
चकार शिखिनं विधिर्मदनधूम्रयन्त्रं नु किम् ॥ २२ ॥
जवजितमरुदालीशारदस्वच्छमेघ-
प्रकरतुरगरूढा भ्रूकटाक्षात्तशस्त्राः ।
अमरनगरनार्यः प्रौढयुद्धाश्ववारा
इव मदननृपस्यायान्ति पार्श्वे च पश्चात् ॥ २३ ॥
पृष्ठारोहितवस्त्रसद्मनिकरश्रीराजवेषोचित-
स्वच्छानेकतदायुधोज्ज्वलपरीधानांशुकग्रन्थयः ।
संध्यारागकडारशारदपयोवाहव्रजाः पृष्ठतः
श्रीमत्कामनृपस्य यान्ति करभाः किं सत्वरं वेगिनः ॥२४॥

इति शरदर्णनम् ।