पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ष्डृतुवर्णनकाव्यम् । १२७

मध्येपथं नु वलिताम्बसरक्षकस्य(?)
द्वैतीयकं शकुनमेतदनङ्गभूपः ॥ १४ ॥

इति ग्रीष्मवर्णनम् ।

असितकमलनीलश्चञ्चलाशृङ्खलोऽसौ
विशदतरबलाकालम्बिनक्षत्रमालः ।
मदजलमपि मुञ्चन्केकिनादाप्तघण्टो
द्विरद इव पयोदः शम्बरारेर्विभाति ॥ १५ ॥
चपलकनकविद्युद्वल्गया शोभितास्यः
सुरपधनुविचित्रीभूतपल्यायनश्च ।
समयधृतबलाकापङ्क्तिवल्गाच्छरज्जु-
स्तुरग इव पयोदः शम्बरारेर्विभाति ॥ १६ ॥
नीलाच्छाम्बरचञ्चलाञ्चललसत्सौवर्णचीनाञ्चल-
प्रादुर्भूतपयोधरा समयसद्वंशाग्रसंरोहिणी ।
नानावर्णसुरेन्द्रकार्मुकमहादण्डं दधाना पुरः
श्रीमत्कामनृपस्य सादरमियं वर्षानटी नृत्यति ॥ १७ ॥
विद्युत्सुवर्णकृततन्तुनिबद्धमान-
देवाधिपायुधधृतातुलवंशदण्डा ।
आसारगुच्छरुचिरां घनवादिकाढ्या-
मारुह्य याति नु वियच्छिबिकामनङ्गः ॥ १८ ॥
अनिलकलितचक्रः श्याममेघाश्वयुक्तः
सतततरलविद्युद्वैजयन्त्याभिरामः ।


1. 'वनितां वनरक्षकस्य' इति भवेत. मालिनीमित्यर्थः २. 'भूभृशीतॄ' ३. ७ इत्युणादिसूत्रेणोकारान्तोऽपि धनुशब्दः