पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२६ काव्यमाला ।

अग्रस्थपत्तय इवालिगणाः प्रयान्ति श्रीमन्महामदनभूमिपतेर्वनेषु ॥ ९ ॥

इति वसन्तवर्णनम् ।

भृङ्गाङ्गनारवमिपाद्वनदेवताभिः
संवादितानि कुसुमानि सुपाटलानाम् ।
ग्रीष्मस्य कामपृतनाजनराष्ट्रिकस्य
शृङ्गाणि भान्ति पुरतो विपिनेषु मन्ये ॥ १० ॥
भृङ्गाङ्गनारवमिपाद्वनदेवताभि-
र्नैजास्यवायुपरिपूरणवादितानि ।
श्रीकामभूपपुरतो विपिनेषु मन्ये
सूर्याणि मल्लिकुसुमानि शुचौ विभान्ति ॥ ११ ॥
तीराधिरूढलतिकाव्रजमण्डपासु
फुल्लारविन्दमधुगन्धमनोहरासु ।
अग्रेगताधिकपरिश्रमजातखेदाः
केचिज्जनाश्च सरसीषु गता विमङ्क्तुम् ॥ १२ ॥
अथ नवघनपत्त्रालीविचित्रं मनोज्ञं
मधुरतरपयोभिर्वक्रपर्यन्तपूर्णम् ।
कुचयुगलमपश्यद्यत्प्रपापालिकानां
शकुनकलशयुग्मं दूरतः कामभूपः ॥ १३ ॥
पक्काम्रसंभृतिकृतच्छदपञ्चशाखं(ख-)
युग्माञ्जलिं नवरसालवनीमपश्यत् ।