पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षडृतुवर्णनकाव्यम् । १२५

सौरभ्यसौरमितसौरभमञ्जरीषु
भृङ्गावली विजयते विजयाय यूनाम् ।
श्रीमन्महामदनभूमिपतेः सदैव
संलग्नतीक्ष्णतरबाणधनुर्लतेव ॥ ४ ॥
भृङ्गाङ्गनालिनिवहैर्मधुपानलुब्धैः
संवेष्टितानि परितो नवकिंशुकानि ।
किं कालकूटरसलेपनलेपिता हि
चन्द्रेषवः स्मरनृपस्य वने विभान्ति ॥ ५ ॥
मलयजनितवृक्षोद्भूतवालप्रवाल-
प्रकरसुरभिवाहैर्गन्धवाहैः समन्तात् ।
तरलतरलचञ्चत्पल्लवा भाति रम्भा-
सरणिरिह पताकालीव कामस्य राज्ञः ॥ ६ ॥
नूनं वियोगिजनवैरिचमूजयाय
निर्गच्छतः कुपितकामनराधिपस्य ।
उच्चैरसालकलिकामधुपानमत्त-
पुंस्कोकिलध्वनिमिषेण ररास ढक्का ॥ ७ ॥
प्रसूनधनुरुद्वहन्कुसुमपञ्चबाणांस्तथा
विनिर्जितजगत्त्रयः कृतसहायपुष्पाकरः ।
त्वमीदृश इति स्मरक्षितिपतेः क्षितौ कूजितैः
स्तुवन्ति पिकबन्दिनस्तुहि तुहीति जानीमहे ॥ ८ ॥
अग्रे समागतवियोगिचमूसमूहा-
न्गुञ्जामिषात्कलकलेन निवारयन्तः ।