पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ काव्यमाला ।

किमत्र चित्रं द्विजबाहुजाद्या गतिं लभन्तेऽप्युपजातयोऽन्ये ।
त्रिभिस्त्रिपद्याश्रितचारुवृत्तैः कृतं यथाबुद्धि मया बुधैस्तत् ।
विलोकनीयं रघुनन्दनस्य यतो यशो लोकगुरोर्गुरुत्वात् ॥ १२५ ॥
श्रीधीरपीताम्बरनन्दनेन कृता सकृत्सत्कविवन्दनेन ।
हृत्सारिसारस्वतदिव्यधाम्ना काव्यं प्रणीतं हरिकृष्णनाम्ना ॥ १२६ ॥
श्यामा कामाभिरामा सविधगततडित्कामरामाभिरामा(म)-
श्यामावामाक्षिदृष्टा सकलजनमनःप्रीतिकादम्बिनीव ।
विभ्राजद्भूरिभूषामणिकिरणहरीष्वासशोभा विवाहे
जीयात्पुत्र्या धरित्र्याः सह बहलगुणस्रग्धरा राममूर्तिः ॥ १२७ ॥

इति श्रीहरिकृष्णभट्टविरचितं जानकीस्वयंवरं काव्यं समाप्तम् ।



श्रीव्रजराजदीक्षितविरचितं

षडृतुवर्णनकाव्यम् ।

निजार्धहृतशंकरं सकलदैत्यनाशंकरं
जगत्त्रितयशंकरं स्वजनचित्तनिःशंकरम् ।
ममाशु भजतः पुरं धृतवसुंधरान्तःपुरं
करोतु निजतः पुरं पशुपतेः सदान्तःपुरम् ॥ १ ॥
श्रीसामराजगुरुनाथपदं विभाव्य
श्रीसामराजपदपद्ममिलिन्दकोऽहम् ।
श्रीकामराजपितृपत्परिसेवनेन
श्रीकामराजपृतनारचनां करोमि ॥ २ ॥
आज्ञया विबुधेशस्य षडर्तु(?)कृतसेनकः ।
शूलपाणिं शिवं जेतुं चचाल कुसुमायुधः ॥ ३ ॥


१. 'सर्वर्तु' इत्युचितः पाठः.