पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सीतास्वयंवरकाव्यम् । १२३

समादिशत्सैन्यपतिं व्रजाशु प्रयाणघोषं खलु घोषयेति ।
प्रास्थानिके दुन्दुभिमन्द्रनादे समं समुज्जृम्भति दिक्षु मङ्क्षु ॥ ११५ ॥
(युग्मम्)
यथायथं क्षत्रियपुङ्गवास्ते संनह्य भेजुर्वरवाहनानि ।
मतङ्गजैः कज्जलशृङ्गितुङ्गैस्तुरङ्गमैर्निर्जितवातवेगैः ॥ ११६ ॥
वरूथिभिर्दाशरथी रथैश्च सेनाजगामाद्भुतयोधजुष्टा ।
संगच्छमानं बहुमानपूर्वमभ्यागतः सभ्यतमं तमर्च्य॑म् ॥ ११७ ॥
उपानयत्स्वं पुरमानिनाय स मैथिलः कोशलदेशनाथम् ।
धराधिपौ वासववित्तपालसमौ समाजं समये समेत्य ॥ ११८ ॥
कन्याकुमारोद्वहनोत्सवं तौ वितेनतुः स्वप्रभुतानुरूपम् ।
तां रामरामावरणे ह्यभिख्यामाख्यातुमीशः कथमेकजिह्वः ॥ ११९ ॥
शेषोऽप्यशेषाननयुग्मसंख्यैर्या तच्छतैर्वक्तुमनीश्वरः स्यात् ।
परापवादानृतदूषिताया गिरः पवित्रीकरणाय कृत्यम् ॥ १२० ॥
तितिक्षुभिः क्षाम्यमिदं कवीन्द्रैः शुकस्य मे यद्गरुडायितं स्यात् ।
अपारसंसारपयोधिपूरे निमज्जतां नैकजनुस्तनूनाम् ॥ १२१ ॥
पोतायितै रामगुणेरुदारैर्भूयात्कृतार्था मम भारतीयम् ।
त्वन्नाम रामाखिलकामधाम निष्कामनिःश्रेयसदं वदन्ति ॥ १२२ ॥
मा सन्तु तेषां यमयातनास्ता या इन्द्रवज्रादपि दुःसहाः स्युः ।
नयद्द्रवीभूतमभूतपूर्वमुदाहृदाविष्कृतशान्ति पुंसाम् ॥ १२३ ॥
भवत्कथाकर्णनमाधुरीभिरुपेन्द्रवज्रादपि तत्कठोरम् ।
वर्णा भवद्वर्णनपूर्णकर्णाः संसारपाथोनिधिमुत्तरन्ति ॥ १२४ ॥