पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ काव्यमाला ।

विलोक्य लोकेनः जयेति तस्य सपर्यया सार्धमुदीर्यमाणे ।
सीता समारोपयदस्य कण्ठे कण्ठीरवाकुण्ठपराक्रमस्य ॥ १०३ ॥
जितप्रवालेन नखैस्तलेन करेण मालामवलम्ब्य माला ।
वर्षा ववर्षामरभूरुहाणां पुष्पाणि गन्धोन्मदषट्पदानि ॥ १०४ ॥
बबौ समीरः सुरसिन्धुनीरविकाशिपङ्केरुहरेणुगन्धिः ।
महोत्सवे तद्दिवि देवनुन्ना मन्द्रं मुहुर्दुन्दुभ्यो विनेदुः ॥ १०५ ॥
सभा जयन्ती च सभाजयन्ती तं राघवं माध(द)वती नुनाव ।
आकर्ण्य कर्णैः प्रणिधिप्रणीतं कठोरकोदण्डविघट्टनं तत् ॥ १०६ ॥
अभूत्स तापाय दशाननस्य सिन्धोर्यथा वाडवहव्यवाहः ।
अमानि मानापहरं नरेन्द्रैर्विश्वस्य निःश्वस्य तदा महर्षेः ॥ १०७ ॥
रङ्गेऽमुमानीतवतोऽस्य विश्वामित्रत्वमत्र स्फुरतीति चित्ते ।
चकोरवत्प्रीतियुजि क्षितीशे तदात्मजायां च कुमुद्वतीवत् ॥ १०८ ॥
पयोधिवत्कौशिकवंशदीपे तमोपहोऽराजत रामचन्द्रः ।
गुरुं गुरोश्चित्रशिखण्डिजस्य स्फूर्ति(र्त्ती)स्तिरस्कर्तुमपि क्षमं स्वम् ॥ १०९ ॥
वक्तुं स वार्तामजनन्दनाय विदेहराजः प्रजिघाय तूर्णम् ।
सा केतुभिस्तोरणमण्डलैश्च साकेतपूर्भूरिविलोकनीया ॥ ११० ॥
विलोकितायाखिललोकसारा सारामकासारवती द्विजेन ।
गृहान्निरीक्ष्याखिलसागराणां रत्नैर्विचित्रानथ नागराणाम् ॥ १११ ॥
विप्रोऽविशद्राजगृहं विशालं वियद्विभागाश्रितचन्द्रशालम् ।
प्रस्कन्दितेन स्वरथाद्यथावत्सविष्टरैः स्वागतवाक्यापूर्वैः ॥ ११२ ॥
समर्हणैः पङ्क्तिरथेन तेन सभाजितेनाशु सभाप्यभा(जि) ।
धरातुराषाहि निवेद्य पूर्वं विप्रः प्रणामं मिथिलाधिपस्य ॥ ११३ ॥
रामस्य तं विक्रममुग्रशक्तेर्व्यक्तेन वाक्येन जगाद भूयः ।
द्विजाधिपाद्वागमृतं निपीय पीयूषतः स्वादुरसं रसेन्द्रः ॥ ११४ ॥