पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सीतास्वयंवरकाव्यम् । १२१

वितापमन्तःकरणं विधिसुर्दित्सुः पुनर्जीवितमस्य विप्रः ।
ऊचे कृपाद्रावितचित्तवृत्ताः पराधिभङ्गप्रयता हि सन्तः ॥ ९१ ॥
एतद्धनुर्भेत्स्यति रामचन्द्रो वृथा कृथा मा नृप तापमन्तः ।
विधेहि विश्वासमृते मदुत्ते तदत्र तेऽहं प्रतिभूर्भवामि ॥ ९२ ॥
तमःसु दुर्गेष्विव काननेषु न चित्रभानोः स्खलति प्रभावः ।
चापेऽन्यभूपालयशःशशाङ्कखर्भानुकल्पेऽपि तथास्य शक्तिः ॥ ९३ ॥
तद्वाक्यपीयूषरसातिवर्षाहर्षाकुले राजनि जायमाने ।
मानेन कस्यारतुषारभूभृत्सुतां सुता सावनिचक्रभर्तुः ॥ ९४ ॥
मुनिर्मनाग्हासविलासभासं समादिदेशाथ जयेति रामम् ।
कोदण्डमालोकय लोकभीमं महीपतेः पूरय शूर कामम् ॥ ९५ ॥
श्रुत्वा वचः कौशिकवंशकेतोश्चेतोहरं प्राञ्जलिरग्रतोऽस्थात् ।
जनस्य राज्ञो जनकस्य रामस्तथात्मनो वा जनकात्मजायाः ॥ ९६ ॥
तं प्रण्यपप्तद्गुरुमाहिताग्निं कर्तुं धनुर्भञ्जनमञ्जनाभः ।
मृगेन्द्रविक्रान्तगतिस्ततोऽसौ चण्डीशकोदण्डसमीपमागात् ॥ ९७ ॥
निरीक्ष्य तत्कार्मुकमुग्रतेजाः प्रगुप्तभोगीश्वरभोगभीमम् ।
भीमस्य भीमासुरमीतिकारि प्रदक्षिणं दक्षिणलक्षणोऽगात् ॥ ९८ ।।
ततो गृहीत्वैककरेण रामः कामप्रसूनेष्वसनं यथैव ।
द्रागाततज्यं मिषतामकार्षीत्सभासदामेतददीनसत्त्वः ॥ ९९ ॥
भ्राजिष्णुजिष्णुस्तमचारुचापधनं विनिन्दन्स वपुःश्रिया तत् ।
चकर्ष हर्षं जनयञ्जनानां बभञ्ज भञ्जन्दशमौलिमानम् ॥ १०० ॥
छन्ना नरेन्दैर्न विचालितं यद्भग्नं धनुस्तद्रघुनन्दनेन ।
कार्यं सहस्रोस्रविधानयोग्यं विधीयते जातु न तारकाभिः ॥ १०१ ॥
किमत्र चित्रं त्रिपुरारिचापोऽमुना सलीलं शकलीकृतो यत् ।
मदान्धमातङ्गघटा परिष्ठः किं केसरी न प्रजरीहरीति ॥ १०२ ॥