पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२० काव्यमाला ।

कंदर्पदर्पापहदेहसंपत्कपाटवक्षा युगदीर्घबाहुः ।
अयं सुतो वंशमलंकरिष्णुः कलङ्कशाका(खा)रहितस्य कस्य ॥ ८० ॥
अधिष्ठितां लोकगुरुर्विलोक्य धियं तदीयां विनयं नयं च ।
राजानमाजानुबिलम्बिबाहुं तं ज्ञापयिष्यन्नृपिरेतदाह ॥ ८१ ॥
अयं दयी दाशरथिः कुमारो वंशाङ्कुरः पङ्कजिनीप्रियस्य ।
यत्पादपद्मस्य परागसङ्गात्सुस्त्रीत्वमापाथ शिलाप्यहल्या ॥ ८२ ॥
मदध्वरध्वंसनपक्षरक्षःकक्षानलस्ताडितताडकोऽयम् ।
सलक्ष्मणः पूर्णवलक्षपक्षेऽप्यलक्ष्मपक्ष्मेन्दुविलासहासः ॥ ८३ ॥
धराभरापायविधावतीन्द्रः सुहृत्समुद्रोल्लसनैकचन्द्रः ।
समग्रलावण्यसुधासमुद्रः प्रतीतनामा भुवि रामचन्द्रः ॥ ८४ ॥
(विशेषकम् )

प्रकाशिते तद्गुणसिन्धुबन्धौ श्रोतृश्रुतिप्रीतिसुधाविधाने ।
महर्षिणा हर्षणगद्गदस्य धराधिपस्याजनि लोमहर्षः ॥ ८५ ॥
स आशिखं पादनखाददोषं निरूप्य रूपं जितमीनकेतोः ।
मेनेऽस्य योग्यां तनयां वरस्य समस्तयोषित्कुलमौलिरत्नाम् ॥ ८६ ॥
तद्रूपपीयूषसुखानुभूतेः सुकर्कशं तर्कयतोऽस्य चापम् ।
बभूव भूपस्य स रामचन्द्रश्चकोरकोको(?)दितभावहेतुः ॥ ८७ ॥
निपीय रूपं नयनाभिरामं निशम्य वंशं तिलकं नृपाणाम् ।
कुमारमेनं च कुभारमारकल्पं राज्ञाभ्यधायि प्रति गाधिपुत्रम् ॥ ८८ ॥
इयं कथा सार्थवहा सुधाभिर्ज्वरातिदूने रसने सितेव ।
चित्तेन पुत्रीपणतापि तेने माधुर्यमाधित्सति गाधिसूनोः ॥ ८९ ॥
अस्माकमस्मिन्हृदयाघितापे गतोऽस्ति दृग्गोचरतां कृपालो ।
भवान्मुनेऽवग्रहतापितानां काले कृषीणामिव वारिवाहः ॥ ९० ॥