पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारकलिकात्रिशती । १११ शैशवजारमुपागतमसुको मम मातृभगिनीजः । इति सखजे गुरूणां पुरतो निर्व्याजमेणाक्षी ॥ ८१ ॥ शोधयति लिखति पुस्तकमभिके पठति प्रिया रात्रौ । दीपोद्द्योतनमिषतस्तैले रक्षां निवेदयति ॥ ८२ ॥ षाट्कौशिकं शरीरं शिष्याय गुरौ प्रकाशयति । साकूतहसितबदना जगाद काचिद्वरं किमङ्गेषु ॥ ८३ ॥ शुण्डादण्डाकृष्टे ग्रामासन्ने वटे भग्ने । मातङ्गजेन पङ्कजनयना नयनाम्बु तत्याज ॥ ८४ ॥ षोडशसहस्रवनिताः समं स रमयन्हरिर्देवः । कष्टं पुराणपुरुषः पुरुषैरितरैः प्रतिस्पर्ध्यः ॥ ८५ ॥ षण्ढोऽपि काममाविष्कुर्वन्नारोपितं स्मरावेशम् । खेदयति कामिनीमथ किमद्भुतं सखि मयि विधत्से ॥ ८६ ॥ सरसीसलिलान्तर्गतमधोमुखं सस्मिताननं तरुणम् । तीरस्थिता विलोक्य स्वाङ्गे पुलकानवीवहद्बाला ॥ ८७ ॥ सा निजसखीषु बहुशो रचितप्रियवाचिकानुकृतिः । सहसागतं विलोक्य प्रियमबला सस्मितास्यासीत् ॥ ८८ ॥ सिद्धिं नैजां स्त्रीषु प्रथयितुमुपघट्टमर्ककन्यायाः । वृक्षाधिरोहसंस्थां कुतुकी कश्चित्प्रदर्शयति ॥ ८९ ॥ सीतां लक्ष्मणचरितं प्रजावतीं नित्यशोऽभिगायन्तीम् । दृष्ट्वा श्रावयति परं तारा सुग्रीवचरितानि ॥ ९० ॥ सुषमा परावलोकि प्राप्तं जनुषः फलं ममाक्षिभ्याम् । अकुसुमफलोद्भवानां का नु मदन्या स्थली लोके ॥ ९१ ॥