पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ काव्यमाला ।

फलितापि सखे ललिता द्राक्षालतिका मनो विनोदयति । परिपाकाधिकसरसा प्रतिपदपरिदृश्यमानबहुबन्धा ॥ ९९ ॥ फाणितपरिवेषणमिषवशतस्तरुणं वधूर्विलोकयति । सोऽप्यलमिति तां द्वावपि पूर्णं द्रोणं न जानीतः ॥ १०० ॥ रसिकानन्दनिकायां श्रीमत्कविकामराजरचितायाम् । शतकं द्वितीयमेतत्पूर्णं शृङ्गारकलिकायाम् ॥ १ ॥


तृतीयं शतकम् । जयति स कामः कामं कमनीयतरः कलाकलितः । येन किल जन्मतः प्राग्भविष्यता मोहितौ पितरौ ॥ १ ॥ फुल्लमतल्लीमल्लीवल्लीकुञ्जो निलीनालिः । आलोकितो मया किल बालो नालोचितो यशोदायाः ॥ २ ॥ फूत्कुर्वती प्रियस्य स्वहतसरोरुहरजःप्लुते नेत्रे । मिथ्यानिमीलिताक्ष्णा तूर्णं समचुम्बि मानिनी तेन ॥ ३ ॥ फेरुवदनानलशिखाप्रभाविभावितपथा निशीथिन्याम् । पञ्चशरैकसहायाभिसरति धन्यानुरागार्द्रा ॥ ४ ॥ फैरवशब्दं श्रुत्वाभिसारिकागमनदुन्दुभिध्वानम् । कृतकनिमीलितनयना पत्युर्नयने विलोकयति ॥ ५ ॥ बहुना किमिहोक्तेन प्रतियास्ये नैव नागरिङ्गवनम् । कतिभिर्नवोपभोक्तुं तत्र वलान्नागरिङ्गयुगम् ॥ ६ ॥ बाहू प्रसार्य दयिते याचत्याश्लेषमादरतः । सरजसमरन्दतुन्दिलमम्भोजं दर्शयामास ॥ ७ ॥ बिम्बीफलेऽधरपदं कुर्वति दैवे चकोराक्षी । अस्ताचलदिनकरयोः सहासलोकान्तरं सुचिरम् ॥ ८ ॥