पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारकलिकात्रिशती । १०३

नन्दकुमारं यमुनातीरोपगतं विलोक्य कापि ययौ । कलशाकलनच्छलतः प्रकटितवक्षोजतटभुजामूला ॥ ८७ ॥ पतिमभिनववार्तागतमलोक्य मिषेण कीटदंशस्य । चैलाञ्चलमास्फाल्य प्रदीपनिर्वापणं चक्रे ॥ ८८ ॥ पादयुगप्रक्षालनसमयेऽस्मिन्राष्ट्र इत्युत्त्का । रचिताधिकृतापत्या सुतनुस्तनुदक्षिणादाने ॥ ८९ ॥ पिच्छलतरेऽम्बुपातैः कथमुपयास्यामि वापिकातीरे । इति कृतकरोषचचना गुर्वाज्ञता ययौ मुदिता ॥ ९० ॥ थीवानमीक्ष्य तरुणं प्रत्यानयनेऽस्य रचितबहयोगा । नतवदना म प्रातर्दैवे दोषं निवेशयति ॥ ९१ ॥ पुरतः पदं निधातुं सलिलान्तर्बिभ्यतीं सुतनुम् । कृत्वा करे पुरोधाः संस्नापयितुं चमच्चकारान्तः ॥ ९२ ॥ पूजितमानमति विगो(?)स्वामिनमङ्गनाजने भक्त्या । प्रत्युत्थापनसमये प्रति पदमासामसौ मुमुदे ॥ ९३ ॥ पेटीगृहीतुकामे दस्यौ प्राप्ते प्रतीक्षन्त्याम् । दयितायां मौनवतोस्तयोरभून्मन्मथो दूतः ॥ ९४ ॥ पैतृकविधिप्रवृत्तः करेण पिण्डं समादाय । साकूतहासमैक्षद्दयितावदनं युवा कश्चित् ॥ ९५ ॥ पोत्रिणि तटाकतीरे प्ररूढमुस्ताक्षतिप्रवाणे । पाशं सितालिमध्ये करञ्जकुञ्जस्य सौभाग्यम् ॥ ९६ ॥ पौगण्डवं व्यतीता पल्लीपतिकन्यकोद्याने । प्रतिवेशसारिणीजलमलापयन्नैजसारिण्याम् ॥ ९७ ॥ पण्डितवपूर्विचित्रं पराङ्गनारङ्गरञ्जितमनाः । भर्तरि दिवमुपयाते चितानलान्तः प्रजज्वाल ॥ ९८ ॥