पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। झंगडथोंततधिक्कटमुरजध्वनिनादिते भुवने। लोके कुतुकविलोकिनि सरागमालोकनं जयति यूनोः ।। २७ ॥ झञ्झापवनोद्भूतासारविशीर्णाम्बुकणलेशाः । सीत्कुर्वन्ति तदीयेप्वङ्गेषु मनोजतप्तेषु ॥ २८ ॥ टिट्टिभकलकलमधिकं श्रुत्वा गुरुयन्त्रिता भवनकृत्ये । प्रददौ तक्रं सुतनुः पायसकरणाय याचिता दुग्धम् ॥ २९ । टीकत एव तडागं प्रान्ते कोयष्टिकस्तरुणः । संभावयति पुनस्तं चटुना कोयष्टिकी न किंचिदपि ॥ ३०॥ टंकारः स्मरधनुषः फटकारः शमदमादीनाम् । जयकारश्चित्तजनेर्भणितं जयति त्रपावत्याः ।। ३१ ।। ठणिति यदैव वरोरोर्मया श्रुतो नूपुरस्य रवः । अवलोकितगुरुल्लोकः कांचिदवस्थामहं प्राप्तः ॥ ३२ ॥ ठंकृतिमभिसंश्रुत्य क्षीवाक्षी सा क्षपान्तघटिकायाः । नीलमणिवासगृहगा कथयति दयिताय मध्यरात्रमिति ॥ ३३ ॥ डमरुडमत्कारचमत्कृतं गणेशं विलोक्य चलमौलिम् । दोलितशुण्डादण्डं जयन्त्युमाप्रेमहसितानि ॥ ३४ ।। डात्कृतिभीषितलोके प्रेतैः पितृकानने ह्यस्मिन् । नरमांसविक्रयागतपुंसो धैर्यं विलोकयत ॥ ३५ ॥ डिण्डिमधोषः समभून्मनस्विनीमानभङ्गाय । निशि रतवशयुवतीजनकाञ्चीकलकिङ्किणीक्वाणः ॥ ३६ ॥ डुलिमम्बुभङ्गिलोलां संस्थानविशेषशालिनीं वीक्ष्य। अवहत्पलाण्डखण्डप्रपाण्डुरां गण्डमण्डलीं सुतनुः ॥ ३७॥ डैण्डिमशब्दश्रवणस्तनितभ्रमभङ्गुरान्तरा तन्वी । चक्रे सखीर्निराशा राशा वदनावलोकनोत्तरला ॥ ३८ ॥