पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारकलिकात्रिशती। जितमद्य मया दयित त्वदीयसौहार्दसंगत्या । धारयसि देहशोभां न विना मम दर्शनं कांचित् ॥ १५ ॥ जीवितमथ कथमिव सा दधातु भवता विना सुभग । भारायन्ते सुतनोर्वदने नयनोदविन्दवः पतिताः ॥ १६ ॥ जुष्टं पवनैर्घुष्टं पिकालिभिर्वनमनोकहैः पुष्टम् । हृष्टं चित्तं कृष्टं पतता सूर्येण झिल्लिभिस्तुष्टम् ।। १७ ॥ जूटीवन्धव्यापृतहरकरपरिकृष्टकेशायाः । किंचिन्मीलितनयनं सीत्कारो जयति गिरिजायाः ॥ १८ ॥ जेमनसमये लङ्गुकयुगलं परिवेषयन्ती सा । स्वकरेणादायैकं मर्दयता समुपहसितैव ॥ १९ ॥ जैत्रं तव वपुरस्त्रं यूनां विजयाय कृतमनङ्गेन । स्त्रीणां मृगङ्गीनां जयाय कुसुमेषवो विधृताः ॥ २० ॥ जोषं तिष्ठ तवैषा व्यलोकि शोभा परैव मया । निर्वर्तितेऽक्षिणी मे मा श्रुत्योर्निर्नृतिं धेहि ॥ २१ ॥ जङ्घाकरिकः प्रतिहृतदयितोऽप्यन्तः कृतार्थतामगमत् । उत्सुकसत्वरवनितास्खलितांशुकदृष्टवक्षोजः ॥ २२ ॥ झडिति समुपागतास्ते क्रीडनमपसारय त्वरितम् । उक्त्वेत्यसंवृततनुर्जगाम शिबिरं दुनोति तच्चेतः ।। २३ ।। झाङ्कारितनिजपक्षः पक्षी परितः परिभ्रमति । अधिपल्वलमितरे पुनरम्भः पास्यन्ति पक्षिणस्तु कथम् ॥ २४ ॥ झिल्लीझांकृतिमुखरे भिल्लीवेषा निशावदने । पल्लीपतेस्तनूजा मल्लीकुञ्जं गवेषयति ॥ २५ ॥ झुझुणुझुणितचरणकिङ्किणिजालं बालं समादाय । चुम्बति दयिते प्रेम्णा सखीं विलोक्याहसल्ललना ॥ २६ ॥ चतुर्दशगु० ७