पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। चोरमुपागतमीक्ष्य ध्वान्ते शिश्लेष भीषयितुमेषा। सोऽपि तदानन्दवशाचौर्यं का विसस्मार ॥ ३ ॥ चौहारपीठनिलयो धूर्तस्तपसि स्थितः कश्चित् । साकूतमानतमुखं सह समरोदीदरोदयकांचित् ॥ ४॥ चन्दनपङ्कजलार्द्रा वक्षसि निहिता जलार्द्रापि । शुष्यति तत्क्षणमस्याः किं कुर्मः कं प्रति ब्रूमः ॥ ५ ॥ चः खलु शीतप्रकृतिर्जगति स्थितिरीदृशी प्रथिता । कथमिव मयि तिग्मतरो भ्रमत्यहो पद्मिनीनाम्ना ॥६॥ छत्रमिव ग्रामस्य प्ररोहनिभृतो व्यलोकि वटः । श्रुत्वेति वधूवचनं बभूव मलिनानना श्वश्रूः ॥ ७ ॥ छायामर्यमकरिणोत्तानितकमलस्य सखि पश्य । कोकमिथुनं निषीदति तपति खरे खरमयूखेऽस्मिन् ॥ ८ ॥ छिद्रवति वंशिके त्वं मधुरिपुमधुरामृतस्तृप्ते । गायसि मधुस्वरं यत्कस्य न विदितासि लोकेऽस्मिन् ॥ ९॥ छुरितं लीलामिषतः प्रियस्य पैष्टातकं रजोऽक्षियुगे। अभिनवरतविवशाङ्ग्या श्लथनीवीबन्धया सुदृशा ॥ १० ॥ छेकमुखोद्गतसुश्रुतसमागतश्लोकसन्ततिस्तन्वी । पुरुषायिते कथमिति प्रश्नेनापाहरद्दयितशङ्काम् ॥ ११ ॥ छन्दः प्रपठति दयिते चतुष्पदीरूपमम्बुजाक्षी तम् । सहसितमवदन्मर्त्यः कथमिव सक्तश्चतुष्पद्याम् ॥ १२ ॥ जगति जयन्ति न रामाः कति वा प्रियदीयमानमणिभूषाः । मम तु मणिभूषणानामङ्गस्पर्शं स ह्रतिनैव ।। १३ ॥ जारं गुर्जरगृहिणी विलोक्य कीटामिदंशनच्छलतः । प्रकटमकरोन्निजोरुद्वितयं सिचयं समास्फाल्य ॥ १४ ॥