पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।


महाकविश्रीबाणभट्टविरचितं

चण्डीशतकम् ।

टिप्पणसमेतम् ।


  मा भाङ्क्षीर्विभ्रमं भ्रूरधर विधुरता केयमास्यास्य रागं
  पाणे प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम् ।


१. वात्स्यायनवंशोद्भवो महाकविः श्रीबाणभट्टः कान्यकुब्जाधिपतेर्हर्षवर्धनस्य सभायामासीदिति हर्षचरितात्प्रतीयत एव.ख्रिस्तसंवत्सरीयसप्तमशतकपूर्वार्धे 'हुएन् त्सङ्ग्’- (Hiouen-Thsang) नामा कश्चन बौद्धश्चीनदेशाद्भारतवर्षे समागतः वभ्राम च बहूनि वर्षाणि भारते वर्षे. स च प्रत्यहं स्ववृत्तं लिखितवान् . तस्मिन्समये हर्षवर्धनो राज्यं कुर्वन्नासीदिति तद्वृत्तान्तपुस्तकादाधुनिकैर्महापण्डितैरधिगतम्. तस्माद्बाणभट्टोऽपि सप्तमशतकपूर्वार्ध एवासीदिति निश्चितमेव. सांप्रतं बाणभट्टकृतिषु (१) कादम्बरीपूर्वभागः, (२) हर्षचरितम् , (३) चण्डीशतकम्, 1) पार्वतीपरिणयनाटकम्, एतच्चतुष्टयमुपलभ्यते. तत्र पार्वतीपरिणयकर्ता कश्चिदन्यो बाणकविरयमेव वेति संदेहः. विद्यारण्यशिष्योऽपि कश्चन शब्दचन्द्रिका- कर्ताबाण आसीत्. विस्तरेण बाणभट्टवर्णनं तु हर्षचरिते डॉक्टपीटर्सन्मुद्रितकादम्बर्युपोद्धाते च द्रष्टव्यम्. श्लोकबद्धा कादम्बरी, मुकुटताडितकनाटकं च बाणभट्टेन प्रणीतामेत्यपि ज्ञातम्, किं त्वेतद्ग्रन्थद्वयं नाद्याप्युपलब्धम्. २. अस्य शास्त्रस्य सोमेश्वरसूनुधनेश्वरप्रणीतैका, कर्तृनामरहिता चापरा, एवं टीकाद्वयमुपलब्दमस्माभिः. किं तु टीकाद्वयमप्यतीव तुच्छं वृथा समासादिभिः पल्लवितमस्ति.इदानीं उपलब्धं तत्पुस्तकद्वयं चातीवाशुद्धं मध्येमध्ये त्रुटितं चेति संपूर्णटीकामुद्रणमुटीकाद्वयोद्धृतं स्वल्पं टिप्पणमेवात्र गृहीतम्. बाणभट्टस्य चण्डीशतकनिर्माणे मानतुङ्गप्रणीतभक्तामराख्यजिनस्तुतिटीकाकर्तृभिर्गुणाकररत्नचन्द्रादिभिः टीकारम्भे लिखितमस्ति, तच्च कपोलकल्पितमिति नात्रास्माभिरुद्धृतम्.शतस्य शार्ङ्गधरपद्धति-सरस्वतीकण्ठाभरण-वाग्भटप्रणीतकाव्यानुशासन-अर्जुनदेवप्रणीतामरुशतकटीकादिग्रन्थेषु श्लोकाःसमुपलभ्यन्ते.