पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम्। ३५ कृत्वा वक्रेन्दुबिम्बं चलदलकलसद्भ्रूलताचापभङ्गं क्षोभव्यालोलतारं स्फुरदरुणरुचिस्फारपर्यन्तचक्षुः । संध्यासेवापराद्धं भवमिव पुरतो वामपादाम्बुजेन क्षिप्रं दैत्यं क्षिपन्ती महिषितवपुषं पार्वती वः पुनातु ॥७४॥ संध्यायाः सेवा तयापराद्धं कृतापराधं भवं शिवमिव वामपादाम्बुजेन महिषितवपुषं दैत्यं पुरतः क्षिप्रं क्षिपन्ती पार्वती वः पुनातु । किं कृत्वा । चलदलकलसद्भ्रूलताचापभङ्गं, क्षोभव्यालोलतारं, स्फुरदरुगरुचिस्फारपर्यन्त- चक्षुर्वक्रेन्दुबिम्बं कृत्वा ॥ गङ्गासंपर्कदुष्यत्कमलवनसमुद्धूतधूलीविचित्रो वाञ्छासंपूर्णभावादधिकतररसं तूर्णमायान्समीपम् । क्षिप्तः पादेन दूरं वृषग इव यया वामपादाभिलाषी देवारिः कैतवाविष्कृतमहिषवपुः सावतादम्बिका कः ॥७५॥ कैतवाविष्कृतमहिषवपुर्ढेवारिर्यया वृषगः शिव इव पादेन दूरं क्षिप्तः साम्बिका वोऽवतात् । कथंभूतो देवारिर्वृषगश्च । गङ्गासंपर्कदुष्यत्कमलवन- समुद्धूतधूलीविचित्रः । पुनः कथंभूतः । वाञ्छासंपूर्णभावादधिकतररसं यथा स्यादेवं तूर्णं समीपमायानागच्छन् । कथंभूतः । वामपादाभिलाषी प्रसाद- यितुमपकर्तुं च वामपादे लगितुकामः ॥ भद्रे भ्रूचापमेतन्नमयसि नु वृथा विस्फुरन्नेत्रबाणं नाहं केलौ रहस्ये प्रतियुवतिकृतख्यातिदोषः पिनाकी । देवी सोत्प्रासमेवं धृतमहिषतनुं दृप्तमन्तःसकोपं देवारिं पातु युष्मानतिपरुषपदा निघ्नती भद्रकाली ।। ७६ ॥ एवं सोत्प्रासं दृप्तमन्तःसकोपं धृतमहिषतनुं देवारिमतिपरुषपदात्यन्तक- ठोरचरणेन निघ्नती भद्रकाली देवी युष्मान्पातु । एवं कथम् । हे भद्रे, १. 'कोपात्'. २. 'शमय मम रुषा' 'शमयसि तु रुषा'. ३. 'महि- पितवपुषम्'.