पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। चक्षुर्दिक्षु क्षिपन्त्याश्चलितकमलिनीचारुकोषाभिताग्रं मन्द्रध्वानानुयातं झटिति वलयिनो मुक्तबाणस्य पाणेः । चण्ड्याः सव्यापसव्यं सुररिपुषु शरान्प्रेरयन्त्या जयन्ति त्रुट्यन्तः पीनभागे स्तनवलनभरात्संधयः कञ्चुकस्य ।। ७१ ॥ स्तनवलनभरात्पीनभाग उपचितप्रदेशे त्रुट्यन्तश्चण्ड्याः कञ्चुकस्य संधयो जयन्ति । कथंभूतायाः । चलितकमलिनीचारुकोषामिताभ्रम् , अथ च वल- यिनो झटिति मुक्तबाणस्य पाणेर्हस्तस्य मन्द्रध्वानेनानुयातं चक्षुर्दिक्षु क्षिप- स्त्याः । पुनः कथंभूतायाः । सव्यापसव्यं सुररिपुषु शरान्प्रेरयन्त्याः ॥ बाहूत्क्षेपसमुल्लसत्कुचतटं प्रान्तस्फुटत्कञ्चुकं गम्भीरोदरनाभिमण्डलगलत्काञ्चीधृतार्धांशुकम् । पार्वत्या महिषासुरव्यतिकरे व्यायामरम्यं वपुः पर्यस्तावधिबन्धबन्धुरलसत्केशोच्चयं पातु वः ॥ ७२ ॥ महिषासुरव्यतिकरे बाहूत्क्षेपसमुल्लसत्कुचतटम् , प्रान्तस्फुटत्कञ्चुकम् , गम्भीरोदरनाभिमण्डलगलत्काञ्चीधृतार्धांसशुकम्, व्यायामरम्यम् , पर्यस्ताव- धिबन्धबन्धुरलसत्केशोच्चयं पार्वत्या वपुर्वः पातु ॥ चक्रं चक्रायुधस्य क्वणति निपतितं रोमणि ग्रावणीव स्थाणोर्बाणश्च लेभे प्रतिहतिमुरुणा चर्मणा वर्मणेव । यस्येति क्रोधगर्भं हसितहरिहरा तस्य गीर्वाणशत्रोः पायात्पादेन मृत्युं महिषतनुभृतः कुर्वती पार्वती वः ॥७३॥ क्रोधगर्भं इति हसितहरिहरा महिषतनुभृतस्तस्य गीर्वाणशत्रोमृत्युं पादेन कुर्वती पार्वती वः पायात् । इतीति किम् । ग्रावणि पाषाणे इव यस्य रोमणि, अर्थान्महिषस्य निपतितं चक्रायुधस्य चक्रं क्वणति । स्थाणोः शिवस्य बाणश्व उरुणा चर्मणा वर्मणा कवचेनेव प्रतिहतिं प्रतिघातं लेभे 1 विष्णोश्चक्रमस्थ रोममपि नाच्छिनत् । शिवस्य बाणश्वास चर्ममानमपि नाभिनदिति भावः॥ १, 'रुद्राण्याः', २. 'शाररम्यम्'.