पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम् । देवारेर्दानवारेर्द्रुतमिह महिषच्छद्मनः पद्मसद्मा विद्रातीत्यत्र चित्रं तव किमिति भवन्नाभिजातो यतः सः । नाभीतोऽभूत्वयंभूरिव समरभुवि त्वं तु यद्विस्मितास्मी- त्युक्त्वा तद्विस्मितं वः स्मररिपुमहिषीविक्रमेऽव्याज्जयायाः ६९ स्मररिपोः शिवस्य महिष्याः पार्वत्या विक्रमे जयाया इत्युक्त्वा तद्विस्मितं विस्मयो व. पातु । इतीति किम् । महिषच्छद्मनो देवारेः सकाशात्पद्मसद्मा ब्रह्मा द्रुतं विद्राति पलायत इत्यत्र तव किं चिन्नम् । यतः स दानवारेर्विष्णो- र्नाभिजातो विष्णुनाभिसमुत्पन्नो भवन्वर्तते । अथ च अभिजातः कुलीनो न कुलीनस्य पलायनमनुचितम् । अत्र हे शिव इति संबोधनपदमध्याहार्यम् । यत्समरभुवि त्वं तु त्वमपि स्वयंभूरिव ब्रह्मेव नाभीतो नाभिसकाशात् , अथ च अभीतो निर्भयो नाभूत् , तद्विस्मितास्मि ॥ निस्त्रिंशेनोचितं ते विशसनमुरसश्चण्डि कर्मास्य घोरं ब्रीडामस्योपरि त्वं कुरु दृढहृदये मुञ्च शस्त्राण्यमूनि । इत्थं दैत्यैः सदैन्यं समदमपि सुरैस्तुल्यमेवोच्यमाना रुद्राणी दारुणं वो द्रवयतु दुरितं दानवं दारयन्ती ॥ ७० ॥ इत्थममुना प्रकारेण सदैन्यं दैत्यैः समदं सहर्ष च सुरैस्नुल्यमेवोच्यमाना दानवं महिषं दारयन्ती रुद्राणी वो दारुणं दुरितं द्रवयतु । इत्थं कथम् । हे निस्त्रिंशे निर्दये, उरसः, अर्थान्महिषस्य, विशसनं ते नोचितम् । हे चण्डि, घोरं कर्म महिषवधरूपमस्य क्षिप । 'असु क्षेपणे' । अस्योपरि त्वं व्रीडां कुरु । पशुवधेन लज्जा भवति । हे दृढहृदये, दृढमपराधसहिष्णु हृदयं यस्या- स्तत्संबुद्धौ । अमूनि शस्त्राणि मुञ्च दूरे परिहर । इत्थं दैत्यैरुच्यमाना । देवै- स्तु हे चण्डि, निस्त्रिंशेन खड्गेनोरसः, अर्थान्महिषस्य वक्षसः, ते विशसन- मुचितम् । यतोऽस्य कर्म घोरं वर्तते । व्रीडामस्योपरि त्वं कुरु । यदि महि- षवधो न क्रियते तदा महती व्रीडा तव भविष्यतीति भावः । हे दृढहृदये कठिनहृदये, अमूनि शस्त्राण्यस्योपरि मुञ्च । सर्वैः शस्त्रैर्युगपदेव प्रहर ॥ १. "विस्मितास्मांस्त्यक्त्वा'; 'विस्मितासीत्युक्त्वा'. २. 'जया वः'. ३. 'दृढ- हृदयम्'. ३ चतु