पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। उत्पातोग्रान्धकारागममिव महिषं निघ्नती शर्म दिश्या- द्देवी वो वामपादाम्बुरुहनखमयैः पञ्चभिश्चन्द्रमोभिः ॥ ४२ ।। वामपादकमलनस्वरूपैः पञ्चभिश्चन्द्रैरुत्पातोग्रान्धकारागममिव महिषं नि- ध्नती देवी वः शर्म दिश्यात् । कथंभूतम् । अग्नेर्न गम्यं न तिरस्करणीयम्। इन्दोश्चन्द्रस्य च न गम्यम् । सपदि द्वादशानां दिनकृतामादित्यानामसह्यम् । सुरसदसा देवसभया सह शक्रस्याक्ष्णां सहस्रं प्रसह्य सादयन्तं म्लानयन्तम्।। दत्त्वा स्थूलान्त्रमालावलिविघसहसद्धस्मरप्रेतकान्तं कात्यायन्यात्मनैव त्रिदशरिपुमहादैत्यदेहोपहारम् । विश्रान्त्यै पातु युष्मान्क्षणमुपरि 1धृतं केसरिस्कन्धभित्ते- र्बिभ्रत्तत्केसरालीमलिमुखररणन्नूपुरं पादपद्मम् ।। ४३ ॥ कात्यायन्या केसरिस्कन्धभित्तेरुपरि विश्रान्त्यै क्षणं धृतं पादपद्मं युष्मान्पा- तु । कथंभूतं पादपद्मम् । तत्केसरालीः सिंहस्कन्धसटा बिभ्रत् । पुनः । अलि- वन्मुखरो वाचालो रणनूपुरो यत्र तत् । पद्मे हि केसरैर्भ्रमरैश्च भाव्यम् । किं कृत्वा । आत्मनैव त्रिदशरिपुमहादैत्यदेहोपहारं दत्त्वा । कथंभूतमुपहा. रम् । स्थूलात्रमालावलिः स एव विघसो भोजनशेषस्तेन हसन्त्यो घस्2राः प्रेतकान्ता यत्र । निःसारा आत्रावलिरेवासदर्थमवशेषिता देव्येति प्रेत- कान्तानां हासकारणम् ॥ कोपेनेवारुणत्वं दधद1धिकतरालक्ष्यलाक्षारसश्रीः श्लिष्यच्छृङ्गाग्रकोणक्वणितमणितुलाकोटिहुंकारगर्भः । प्रत्यासन्नात्ममृत्युप्रतिभयमसुरैरीक्षितो हन्त्वरीन्वः पादो देव्याः कृतान्तोऽपर इव महिषस्योपरिष्टानिविष्टः॥४४॥ महिषस्योपरिष्टान्निविष्टोऽपरः कृतान्तो यम इव देव्याः पादो वोऽरीन्हन्तु । कथंभूतः पादः । कोपेनेवारुणत्वं दधत् । अत एवाधिकतरालक्ष्यलाक्षारस- श्रीः । पुनः कीदृशः । श्लिष्यच्छृङ्गाग्रमेव कोणो वीणादिवादनकीलस्तेन क्व-. १. 'कृतम्'. २. 'अधिक्रमलम्.