पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० काव्यमाला। कथंभूता । नर्मकर्मणि सङ्ग्रामाख्ये उद्युक्ता । यथा पशुपतौ शिवे सर्वं नर्म- कर्माकरोन्न तथा महिषे किं तु ईषत् । दृष्टौ अर्थान्महिषस्यासक्तदृष्टिः । तथा आभिमुख्ये प्रथममिव संमुखीना । हासप्रगल्भे स्मेरा । प्रियवचसि कृतश्रो- न्नपेयाधिकोक्तिः । कथंभूता । क्षतारिः अत एव विनिहितचरणालक्तकेव । पूर्ववद्यथा शिवे नर्मकर्माकरोत्तद्वदित्यर्थः ॥ दैत्यो दोर्दर्पशाली नहि महिषवपुः कल्पनीयाभ्युपायो वायो वारीश विष्णो वृषगमन 1वृषन्किं विषादो वृथैव । बध्नीत ब्रध्नमिश्राः कवचमचकिताश्चित्रभानो दहारी- नेवं देवाञ्जयोक्ते जयति ह्रतरिपोर्ह्वेपितं हैमवत्याः ॥ ३८॥ देवान्प्रति जयया एवमुक्ते सति हत्तरिपोर्हैमवत्याः पार्वत्या ह्रेपितं लज्जितं जयति । एवं कथम् । हे वायो, हे वारीश वरुण, हे विष्णो, हे वृषगमन शिव, हे वृषन् इन्द्र, महिषवपुर्दैत्यो दोर्दर्पशाली अतो न कल्पनीयाभ्युपायः सामादिप्रयोगसाध्यः । किं वृथैव विषादः कियते । तस्माद्बध्नमिश्राः सूर्यस- हिता यूयमचकिताः सन्तः कवचं बध्नीत संनद्धा भवत । हे चित्रभानो वह्ने, अरीन्दह भस्मीकुरु । आ व्योमव्यापिसीम्नां वनमतिगहर्न गाहमानो भुजाना- मर्चिमोक्षेण मूर्च्छन्दवदहनरुचां लोचनानां त्र3यस्य । यस्या निर्मज्जमज्जचरणभरनतो गां विभिद्य प्रविष्टः पातालं पङ्कपातोन्मुख इव महिषः स्तादुमा सा श्रिये वः ॥३९॥ यस्या निर्मज्जमज्जच्चरणभरनतो महिषो गां भुवं विभिद्य पङ्कपातोन्मुख इव पातालं प्रविष्टः सा उमा वः श्रिये स्तात् । निर्गता मज्जा यस्मादसौ निर्मज्जः स चासौ चरणभरनतश्चेति । कथंभूतः । आ व्योम व्यापिसीम्नां भु- जानामर्थाद्देच्या अतिगहनं वनं गाहमानः । पुनः कथंभूतः । दवदहनरुचां लोचनानां त्रयस्यार्चिमोंक्षेण मूर्छन् । यथा वने भ्राम्यन्दावाग्नितप्तोऽन्यो महिषः कर्दमपातोन्मुखो गर्तं प्रविशति तथायमपि देवीलोचनार्चिभिर्दन्द- ह्यमानः पातालं प्रविष्टः ॥ १. 'बृहत्'. २. 'हतरिपुर्ह्रेपितस्वर्निकाया'. ३. 'त्रयेण'. ४. 'सा शिवास्तु'.